________________
॥ अथ चतुर्विंशतितममध्ययनं प्रवचनमात्राख्यम् ॥
अनन्तराध्यने परेषामपि चित्तविप्लुतिः केशिगौतमवदपनेयेत्युक्त', इह तु तदपनयनं सम्यग्वाग्योगत एव, सच प्रवचनमातृस्वरूपपरिज्ञानत इति तत्स्वरूपमुच्यते, अस्य नाम प्रवचनमातृ
अट्ठप्पवयणमायाओ, समिई गुत्ती तहेव य। पंचेव य समिईओ, तओ गुत्तीउ आहिया ॥९२१॥ समितयः गुप्तयस्तथैव, चः समुच्चये, अष्टसङ्ख्यत्वं तु कथमासामित्याशङ्कयाह-पञ्चैव समितयः त्रयो गुप्तयः आहिआ-आख्यातास्तीर्थकृदादिभिरिति गम्यम् ॥११॥ ॥९२१।। ता एव नामत आह
इरियाभासेसणादाणे, उच्चारे समिई इय। मणगुत्ती वयगुत्ती, कायगुत्ती उ अट्ठमा ॥९२२॥ ईरणं-ईर्या गतिपरिणामो, भाषणं-भाषा, एषणं एपो-गवेषणं तं करोति इति एषणा, आदानं-ग्रहणं पात्रादेः निक्षेपोपलक्षणमेतत् , तत एषां समाहारे ईर्याभाषणादानं तस्मिन् , चस्य भिन्नक्रमत्वादुचारशब्दस्योपलक्षणत्वादुच्चारादिपरिष्ठापनायां च, समितिरस्य च प्रत्येकमभिसम्बन्धादीर्यासमितिरित्यादि योज्यं, इतिः परिसमाप्तौ, एतावत्य एव समितयः, तथा मनसो गुप्तिः मनोगुप्तिरेवमुत्तरयोरपि ॥२॥ ॥९२२॥
निगमनमाह
प्रवचनमातृणां नामनिर्देशः
Jain Education international
For Privale & Personal use only
www.jainelibrary.org