SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ परिशि.१२ उत्तरा अवचूर्णिः ॥ ३९९ ॥ अव० अन्त्यभागः इत्येवंप्रकारान् जीवान् अजीवान् च श्रुत्वा-अवधार्य श्रद्धाय-प्रतिपद्य च सर्वनयाना-नगमादीनामनुमते-अभिप्रेते रमेत-रति कुर्यात् संयमे-चारित्रे मुनिः ।। २५१ ॥ संयमरतिकरणानन्तरं यद्विधेयं तदाह-ततः-तदनन्तरं अनेकानि वर्षाणि श्रामण्यं-श्रमणभावमनुपाल्य-आसेव्य अनेन-अनन्तरवक्ष्यमाणेन क्रमेण-परिपाट्या योगस्तपोऽनुष्टानरूपो व्यापारस्तेन क्रमयोगेन आत्मानं संलिखेत् । द्रव्यतो भावतश्च कृशीकुर्यात् मुनिः, यदुक्तं-"परिपालिओ अ दीहो, परियाओ वायणा तहा दिन्ना । निष्काइया य सीसा, सेयं से अपणो काउं॥१॥ ॥ २५२ ।। अथ क्रमयोगमेवाह-द्वादशेव न तु न्यूनाधिकानि वर्षाणि संलेखन-संलेखा उत्कृष्टिका सर्वविधियुक्ता-द्रव्यतः शरीरस्य, भावतः कषायाणां कृशता, भवेत्संवत्सरं-वर्ष यावत् मध्यमिका, पण्मासा च जघन्यिका ॥ २५३ ।। प्रथमे वर्षचतुष्के विकृत्या निहणं-तपःकरणं परित्यागरूपं कुर्यात् , इदं च कुत्र कुर्यात् ? विचित्रतपसः पारणके । द्वितोये वर्षचतुष्के विचित्रं-चतुर्थ पष्ठाष्टमादिरूपं तु तपश्चरेत्-कुर्यात् ॥ २५४ ॥ एकेन चतुर्थतपसा अन्तरं व्यवधानं यस्मिन् तत् एकान्तरम् , आयाम-आचाम्ल कृत्वा संवत्सगै द्वौ, ततः तदनन्तरं संवत्सराई-मासपटकं, तु नैव अतिविकृष्ट-अष्टमद्वादशादि तपश्चरेत्आसेवेत ॥ २५५॥ ततः संवत्सरार्द्ध तु विकृष्टमेव तपश्चरेत् , अत्रैव विशेषमाह-परिमितं चैव स्वल्पमेव-" द्वादशे हि वर्षे कोटिसहितमायाममिह तु चतुर्थादिपारणके एवेत्येवमुक्तम्" आयाम-आचाम्लं तस्मिन्ननन्तरे द्विधा विभाज्योपदर्शिते संवत्सरे कुर्यात् ।। २५६ ।। | इत्थमेकादशसु वर्षेष्वतिक्रान्तेषु द्वादशके वर्षे किमसौ कुर्यादित्याह कोटया-प्रत्याख्यानाद्यन्तकरूपया सहित कोटिसहितमिति, कोऽर्थः-विवक्षितदिने प्रातराचाम्लं प्रत्याख्याय तच्चाहोरात्रं -16 - -0 ३९९॥ Jain Education L ional For Private & Personal use only jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy