________________
-
--
-
--
-
प्रतिपाल्य पुनर्द्वितीय दिने आचाम्लमेव प्रत्याचष्टे, ततो द्वितीयस्यारम्भकोटिराद्यस्य तु पर्यन्तकोटिः, उभे अपि मिलिते इति तत्कोटिसहितमुच्यते । अन्ये त्याहुः-एकस्मिन् दिने आचाम्लं कृत्वा द्वितीयदिने च तपोऽन्तरमनुष्ठाय पुनस्तृतीयदिने आचाम्लमेव कुर्वीत कोटिसहितमुच्यते । एतदुभयार्थसंवादिनी गाथा-" पट्ठवणओ य दिवसो, पञ्चकखाणस्स निट्ठवणओ अ । जहियं समिति दोनिवि, तं भष्णइ कोडोसहियं तु ॥१॥" संवत्सरे-वर्षे द्वादशमे मुनिः मासाद्धमासिकेन एव मासाद्वैनैव वा मासिकेनैव आहारेण-आहारत्यागेन तपः-अनशनं चरेन्-अनुतिष्ठेत् ॥ २५७ ।। इत्थं प्रतिपन्नानशनस्यापि अशुभभावपरिहारं शुभभावसेवनां चहापयितुमनथहेतुतामर्थहेतुतां च दर्शयन्नाह--कन्दपभावनाः, आभियोग्यभावनाः, किल्बिषभावनाः, मोहभावनाः, असुरत्वॐ भावनाः, एताः-पूर्वोक्ताः दुर्गतयः-दुर्गतिहेतुतया कदेत्याह-मरणसमये कीदृश्यः सत्यः इत्याह-"जो संजोवि एयासु, अप्पसत्थासु
भावणं कुणइ । सो तबिहेसु गच्छइ, सुरेसु भइओ सरणहीणो॥१॥" विराधिकाः सम्यग्दर्शनस्य भवन्ति ।। २५८ ॥ उत्तरकाले । तासु यत्स्यात्तदाह--मिथ्यादर्शन-अतच्चे तत्वाभिनिवेशरूपं, तत्र रक्ता-आसक्ताः मिथ्यादर्शनरताः, सह निदानेन-प्रार्थनारूपेण
वर्तन्ते इति मनिदानाः, 'हु'-पूरणे हिंसकाः-प्राण्युपमईकारिणः, इत्येवंरूपा ये म्रियन्ते जीवाः तेषां पुनदुलभाः-दुधापा बोधिः-प्रेत्य४ जिनधर्मावाप्तिः ।। २५९ ।। अथोत्तरकाले शुभभावनासु यत्स्यात्तदाह-सम्यग्दर्शनरक्ताः, अनिदानाः, शुकलेश्यामवगाढाः-प्रविष्टाः इत्येवंरूपा ये म्रियन्ते जीवाः सुलभा तेषां भवेत् बोधिः ।। २६० ॥ कृष्णलेश्यावगाहनाविशेषार्थत्वान्न पौनरुक्त्यम् ।।
मिथ्यादर्शनरताः, सनिदानाः, कृष्णलेश्यामवगाढा इत्येवंरूपा ये म्रियन्ते जीवाः तेषां पुनदुर्लभा बोधिः ।। २६१ ॥ जिन वचने इति विशेषान्न पौनरुक्त्यम् , जिनवचने अनुरक्ताः जिनवचन-जिनवचनाराधनां ये कुर्वन्ति भावेन श्रद्वया अत एव अमला:
R-RTER
%
For Private & Personal Use Only
Mainelibrary.org