________________
-
--
-
*
कृत्यं ज्ञात्वा आचार्यस्य-गुरोः तुशब्दात्कायगतकृत्यग्रहः, तत्कृत्यं परिगृह्य-स्वीकृत्य, वाचया-इदमित्थं करोमीत्यादिकया कर्मणा तभिवर्तनेन उपपादयेत्-विदधीत ॥ ४३ ॥ पुनर्विनीतो यादृक्स्यात्तदाह-वित्तो-विनोतः चोदितः-प्रेरितः गुरुकृत्येषु नित्य क्षिप्रं-शोध भवति मुचोदितः गुरुकृत्येषु तत्परः यथोपदिष्टं सुष्टु परिपूर्ण कृतं सुकृतं यथा स्यात्तथा कृत्यानि करोति सदा॥४४॥ अथोपसंहर्तुमाह-ज्ञात्वाऽध्ययनाथ नमति मेधावी-अध्ययनसमर्थः लोके कीर्तिः-लब्धमस्य सुजन्मेत्यादिका, तस्य जायतेप्रादुर्भवति, भवति कृत्यानामाचार्यादीनां शरणं--आश्रयः भूतानां प्राणिनां जगती--पृथ्वी यथा ॥ ४५ ॥ पूज्यप्रसादने फलमाह
पूज्याः-आचार्यादयः यस्य-शिष्यस्य प्रसीदन्ति-तुष्यन्ति सम्यग्ज्ञाततत्वाः पूर्व वाचनादिकालादक्सिंस्तुताः प्रसन्नाः सन्तः लाभयिष्यन्ति-प्रापयिष्यन्ति, विपुलं-विस्तीर्ण अर्थो-मोक्षः प्रयोजनमस्येति आर्थिकं श्रुतं- साङ्गोपाङ्गम् ॥ ४६॥ सम्प्रति श्रुतावाप्तौ तस्यैहिकफलमाह-स विनीतः शिष्यः पूज्यं-लाध्यं शास्त्रमस्येति पूज्यशास्त्रः, सु-अतिशयेन विनीतः अपनोतः संशयो यस्य सुविनीतसंशयः, मनः प्रस्तावाद्-गुरो रुचिरस्मिन्मनोरुचिः, तिष्ठति--आस्ते कर्म-यतिक्रिया तस्याः संपदा उपलक्षितः तपसः सामाचारी समाचरणं तपथ सामाचारी च वा, समाधिः-चित्तस्वास्थ्य तैस्तेषु वा संवृतः-निरुद्धाश्रवः, महती द्युतिः-तेजो यस्य महाद्युतिः. पञ्च व्रतानि पालयित्वा ॥४७॥ पुनरस्यैवैहिकं फलविशेषमाद-स विनीतः शिष्यः देवः-वैमानिकादिभिः गन्धः-गन्धर्वनिकायजेः मनुष्यैश्चक्रवादिभिः पूजितः-सत्कृतः त्यक्त्वा देह-शरीरं मलपङ्कपूर्वकं-रक्तमांसशुकादिमयं सिद्धो वा भवति शाश्वतः वा-अथवा देवः, अल्परजाः-अल्पकर्मा, महती ऋद्धिर्विकुर्वणादिरूपा यस्य स महर्द्धिकः, इति परिसमाप्तौ ब्रोमि गुरूपदेशतः ॥ ४८ ॥
विणयसुयज्झयणं सम्मत्तं ॥१॥ ।। इति विनयश्रुताध्ययनं सम्पूर्णम् ॥
Vउत्त०६७
56-
GREEKR९--
--
56
Jain Education
National
For Private & Personal use only
w.jainelibrary.org