________________
उत्तरा०
अवचूर्णिः
।। ३९६ ।।
आक्रोशा - गाल्पादयश्च वथा दण्डादिवाला मे मम, कल्वार्थ-हितकारिणं अनुशासन्तं गुरुं पापदृष्टिः इति पूर्वोक्तवत् मन्यते ||३८|| विनीताभिसन्धिमाद - पुत्र इव मे मम आतेव ज्ञातिः सम्बन्धी इतिबुद्धधा गुरुर्मामनुशास्तीति भावः, सुशिष्यः कल्याणं गुर्वनुशासनं मन्यते पापदृष्टिस्तु कुशिष्य आत्मानं हितानुशासनेनापि शास्यमानं दासमिव मन्यते ॥ ३९ ॥ विनयस्त्रमाह-न कोपयेत्, आचार्यादिकं, गुरुभिः शिव्यमाणं स्वात्मानमपि न कोपयेत् बुद्धोपघाती - आचार्योपघाती न स्यात्, तथा न स्याद्यथा तुद्यतेव्यथतेऽनेनेतितोत्रं गवेपयतीति-तोत्रगवेषकः । तोत्रं - द्रव्यतः प्राजनादिः भावतस्तु दोषोद्भावनम् । अत्रोदाहरणम् -
कश्विदाचार्यो युगप्रधादः क्षीणजङ्घावलत्वादेकत्र स्थितः, अन्यदा तच्छियैचिन्तितं कुgar, अजमोऽयं, स्निग्धाहारैः faraj सेवनीयः, स्निग्धाहारं न विहरन्ति वदन्ति च श्रद्धा न ददतीति श्राद्धपुरतोऽपि वदन्ति संलेखनां चिकीर्ष गुरवः स्निग्धाहारं न गृह्णन्तीति, अन्यदा श्रविज्ञप्ता गुरवः यूयं सुतीर्थमस्माकं सनाथा वयं, स्निग्धाहारं गृह्णीत, शिष्याणामस्माकं च शिरसि भारो न कुरुते इति, ततच गुरुभिः शिष्पविकसितं ज्ञात्वा तदप्रीत्या भक्तं प्रत्याख्यातं, तद्वत् बुद्धोपघाती न स्यात् ॥४०॥ कथंचित्कुपिते यत्कृत्यं तदाह
आचार्य - गुरु कोपितं - सकोप ज्ञात्वा प्रातीतिकेन प्रतीत्युपपादकवचसा प्रसादयेत् प्रसादं नयेत् एतदेवाह - विध्यापयेत् कोप - उपशमयेत् प्रकृताञ्जलिः वदेत क्षमितव्यं न पुनः प्रमादाचरितमाचरिष्यामीति ॥। ४१ ।। संप्रति यथाचार्यस्य कोप एव न स्यात्तथाह – धर्मेण - क्षान्त्यादिना अर्जित उपार्जितं च विधिव्यवहरणं व्यवहारं बुद्धेः - आचार्यैः आचरितं स्वीकृतं सदा तं चरन् व्यवहार गर्हणां निन्दामविनीत इति नाभिगच्छति न प्राप्नोति शिष्यः ॥ ४२ ॥ विनीत यादवस्यात्तदाह- मनोगतं वाक्यगतं
For Private & Personal Use Only
Jain Education National
-+%7C+
परिशि. १२
ज्ञानसागर.
अव० अन्त्यभागः
॥ २९६ ॥
w.jainelibrary.org