________________
उतरा०
अवचूर्णिः
॥ ३८६ ॥
सामान्यप्रक्रमेऽपि स्कन्धः, परमाणूनां संस्थानासंभवात् । अत्र संस्थानपञ्चकसंयोगे १०० । एवं वर्णादीनां सर्वभङ्गसङ्कलनातो जातानि ४८२ ॥ ४६ ॥ १३८८- १४१९ ॥ उपसंहरन्नुत्तरसम्बन्धमाह - ए० ॥ १४२० ॥ सं० ॥ १४२१ ॥ तमिति सू० तान् ॥ ४७-४८ ॥ १४२०–२१ ॥ तथैवेत्युक्तसमुच्चये, चस्तु तीर्थातीर्थसिद्धयाद्यनुक्तभेदसंसूचकः ॥ ४९ ॥ १४२२ ॥ सिद्धानेवावगा - हातः क्षेत्रत वाह - उ० || १४२३|| उत्कृष्टावगाहनायां - पञ्चधनुः शतप्रमाणायां जघन्यावगाहनायां द्विहस्तमानायां मध्यमावगाहनायां चोत्कृष्टजघन्यावगाहनान्तरालवर्तिन्यां सिद्धाः ऊर्ध्वं मेरुचूलिकादौ, अधोलौकिकग्रामादौ तिर्यग्लोके चार्द्धतृतीयद्वीपसमुद्ररूपे, तत्रापि केचित्समुद्रे जले च नद्यादिसम्बन्धिनि सिद्धाः, भूभूधराद्यशेषास्पदोपलक्षणमेतत् ॥ ५० ॥ १४२३ ॥ इत्थं स्त्रीसिद्धादीनभिदधता स्त्रीत्वादिपु सिद्धिसंभव उक्तः, तत्रापि का कियन्तः सिद्धा इत्याशङ्कयाह – दस० ।। १४२४ ॥ यवमध्यमिव यवमध्या मध्यमाव - गाहना तस्यामष्टोत्तरशतसंख्याः यवमध्यत्वं चैषां मध्यमावगाहनायामुत्कृष्टजघन्यावगाहनयोर्मध्यवर्त्तित्वात् तदपेक्षया च बहुतरसङ्ख्यात्वेन स्थूलतयैव भासमानत्वात् ॥ ५१-५४ ॥ १४२४-२७ ॥ सिद्धानामेव प्रतिघाताद्याह
क० - अलो० ।। १४२८--२९ ॥ तत्र लोकाग्रे गत्वा वचनव्यत्ययासिद्धयन्ति ॥ ५५-५६ ।। १४२८--२९ ॥ लोकाग्रे गत्वा सिद्ध्यन्तीत्युक्तं, तच्च किमित्याह - बा० ५ ।। १४३०-३४ ॥ अर्जुनं शुक्लं तच्च तत्सुवर्णं चार्जुनसुवर्णमयी, उत्तानयम् - ऊर्ध्वमुखं यच्छत्रकं तत्संस्थिता ।। प्राक्सामान्यतः छत्रसंस्थितेत्युक्तमिह तूत्तानत्वं तद्विशेष उच्यते इति न पौनरुक्त्यम्, सीताभिधानायाः पृथिव्या उपरीति शेषः योजने तत इति तस्या लोकान्तो व्याख्यातः ।। ६१ ।। १४३४ ॥ जो० ।। १४३५ ॥ तत्र, सुव्य० तस्य ॥ त० ।। १४३६ ।। तत्र कस्य कियत्यवगाहनेत्याह - ओ० ।। १४३७ ॥ एतानेव कालत आह - ए० ।। १४३८ ॥ पृथक्त्वेन
For Private & Personal Use Only
Jain Education International
परिशि. ११
ज्ञानसागर. अव०
अन्त्यभागः
|| ३८६ ॥
www.jainelibrary.org