________________
44-
चोऽनुक्ताशेषधनधान्यादिसमुच्चये समलोष्टुकाञ्चनः सन् भिक्षुर्विरतः स्यादिति शेषः ॥ १३ ॥ १३६५॥ किमित्येवमत आह
किणंतो० ॥ १३६६ ॥ क्रीणन्-क्रयकस्तथाविधेतरलोकसदृश एव भवति, विक्रीणानश्च-वणिग् वाणिज्यप्रवृत्तत्वादितिभावः, न तादृशो, यादृशो भावभिक्षुरिति ग० ॥१४॥१३६६ ॥ ततः किमित्याह-भिक्खि० ॥१३६७ ॥ भिक्षितव्यं याचितव्यं तथाविधं वस्त्विति ग०, नैव क्रेतव्यम् ॥१५॥ १३६७ ॥ भिक्षितव्यमेकत्रैव स्यादित्याह-समु० ॥१३६८ ॥ पिण्डपातंभिक्षाटनं चरेत-आसेवेत ॥ १६॥ १३६८॥ इत्थं पिण्डमवाप्य यथा भुशीत तथाह-अलो० ॥ १३६९ ॥ अलोल:-न सरसान्ने प्राप्ते लाम्पट्यवान् , न रसे स्निग्धादौ गृध्रः, प्राप्तावभिकाङ्क्षावान् , यतो दान्तजिह्वोऽत एवामूञ्छितः सन्निधेरकरणेन, यापना
निर्वाहः स चार्थासंयमस्य तदर्थम् ॥१७ ॥१३६९॥ अच्च ॥१३७०॥ अर्चनां-पुष्पादिभिः पूजा, रचनां निषद्यादिविषयां, पूजनं ६ वस्त्रादिभिः प्रतिलाभनं, ऋद्धिः-श्राद्धोपकरणादि सत्कारोऽर्थदानादिः, सन्मानोऽभ्युत्थानादिः ॥ १८॥ १३७० ॥
किं पुनः कुर्यादि-मुक्क०॥ १३७१ ॥ शुक्लध्यानं यथा स्यादेवं ध्यायेत् विहरेदप्रतिबद्धविहारेणेति ग० यावत्कालस्य मृत्योः | पर्यायः-प्रस्ताव इत्यर्थः ॥ १९॥ १३७१॥ ततश्च निज० ॥१३७२ ॥-परित्यज्य मानुषी बुन्दि-तनुं प्रभुः वीर्यान्तरायक्षयतो ४ा दुखेर्मुच्यते ॥ २० ॥ १३७२ ॥ किशः सन्नित्याह-नि० ॥१३७३ ॥ परिनिवृतः-अस्वास्थ्यहेतुकर्माभावतः सर्वथा स्वस्थीभूतः ॥ २१ ॥ १३७३॥
॥ इति ३५ अध्ययनम् ॥ अनन्तरं हिंसापरिवर्जनादयो भिक्षुगुणा उक्ताः, ते च जीवाजीवस्वरूपपरिज्ञान एवासेवितुं शक्यन्त इति ज्ञापनार्थमिदमारम्यते
454
उत्त०६२
Jain Education
Altonal
For Private & Personal use only
jainelibrary.org