________________
Jain Education !
प्रदर्शनार्थमित्थमुक्तम् ॥ ५४ ॥ १३४५ ॥
•
जा० ॥ १३४६ ॥ अस्याश्च लान्तकात्प्रभृति यावत्सर्वार्थसिद्धिस्तावत्संभवः ॥ ५५ ॥ १३४६ ॥ गतिद्वारमाह - किण्वा० ॥ १३४७ ॥ अधर्मलेश्याः पापोपादान हेतुत्वात् दुर्गति-नरकतिर्यग्गतिरूपां उपपद्यते - प्राप्नोति ॥ ५६ ॥ १३४७ ॥ ते० ॥ १३४८ ॥ सुगतिं - देवमनुष्यगतिरूपाम् ॥ ५७ ॥ १३४८ ॥ साम्प्रतमायुर्द्वारावसरः, तत्र च यस्या लेश्याया यदायुषो मानं तस्थितिर्द्वार एवार्थत उक्तम्, इह त्विदमुच्यते-अवश्यं हि जन्तुर्यल्लेश्येत्पत्स्यते तल्लेश्य एव म्रियते, तत्र जन्मान्तरभाविलेश्यायाः किमाद्यमये परभवायुष उदय आहोस्विच्चरमसमयेऽन्यथा वेत्यत आह - ० ॥ १३४९ ॥ प्रथमे समये तत्प्रतिपत्तिकालापेक्षया परिणताभिरात्मरूपतामापन्नाभिः || ५८ ।। १३४९ || ले० ।। १३५० || अंतो० | १३५१ ।। अन्तर्मुहूर्त्ते गते एव, तथान्तर्मुहूर्त्त एव शेषके चैव, इत्थं चैतन्मृतिकाले भाविभवलेश्याया उत्पत्तिकाले चातीतभवलेश्याया अन्तर्मुहूर्तमवश्यं भावात् ॥ ६० ॥ १३५१ ।। उपसंहरन्नुपदेशमाह–त० ।। १३५२ ॥ यस्मादेता अभशस्ता दुर्गतिहेतवः प्रशस्ताश्च सुगतिहेतवस्तस्मात् अधितिष्ठद् मुनिरिति शेषः ॥ ६१ ॥ १३५२ ॥ इति अध्ययनम् ३४ ॥
अप्रशस्तलेश्यात्यागतः प्रशस्ता एव ता अधिष्ठातव्या इति अनन्तरमुक्तम्, एतच्च भिक्षुगुणव्यवस्थितेन कर्त्तुं शक्यम्, तदस्थानं च तत्परिज्ञानत इति तदर्थमिदमारभ्यते, अनगारमार्गगतिरितिनामास्य
सुह० ।। १३५३ ॥ मम कथयत इति शेषः, मार्ग प्रक्रमा मुक्तेः, अनेन सेव्यसेवकसम्बन्धेनानगारसम्बन्धित्वं मार्गस्य तत्फलं, च ॥ १॥ १३५३ ॥ सम्बध्यन्ते कर्मणेति गम्यते, मानवा उपल० अन्येऽपि जन्तवः || २ || १३५४ ॥ तथा समुच्चये एव पू० चौर्य,
onal
For Private & Personal Use Only
www.jainelibrary.org