________________
उत्तरा०
अवचूर्णि:
॥ ३८३ ॥
अंतो॰ ॥ १३३६ ॥ अन्तर्मुहूर्त्ताद्धम् - अन्तर्मुहूर्त्तकालं लेश्यानां स्थितिर्जघन्योत्कृष्टा चेति शेषः, कतराऽऽसामित्याह-यस्मिन् इति पृथ्वीकायादौ संमूच्छिममनुष्यादौ च याः कृष्णाद्याः, 'तुः' पू० तिरश्रां मनुष्याणां च मध्ये सम्भवति, ताम्रां एता हि क्वचित्का चित्सम्भवन्ति, केवलां शुद्धां लेश्यां - शुक्ललेश्यामित्यर्थ: ।। ४५ ।। १३३६ || अस्याः स्थितिमाह – मु० ॥ १३३७॥ शुक्ललेश्यायाः स्थितिरिति प्रक्रमः, इह च यद्यपि कश्चित्पूर्व कोट्यायुरष्टवार्षिक एवं व्रतपरिणाममाप्नोति तथापि नैतावद्वयःस्थस्य वर्षपर्यायादवक शुक्ललेश्यायाः संभव इति नवभिर्वर्षैर्न्यना पूर्वकोटिरुच्यते ॥ ४६ ॥ १३३७ || ए० | १३३८ || दस० ॥ १३३९ ।। पल्योपमासंख्येयतमः प्र० भागः, इयं च कृष्णायाः स्थितिरेतावदायुषामेव भवनपतिव्यन्तराणां द्रष्टव्या ॥ ४८ ॥ १३३९ ॥ जा० ॥ १३४० ॥ समयाभ्यधिका, पल्योपमासंख्येयश्व भाग उत्कृष्टा स्थितिबृहत्तरभाग इयं ज्ञेयः ॥ ४९ ॥ १३४० ॥
जा० ।। १३४१ ।। एतावदायुषामेव भवनपतिव्यंतराणामिमे ज्ञेये, इहापि पूर्वस्मात् बृहत्तरोऽसंख्येयभागो गृ० ॥ ५० ॥ १३४१ ।। इत्थं निकाद्वयभाविनीमाद्यलेश्यात्रयस्थितिमुक्त्वा सर्वनिकायभाविनीं तेजोलेश्यास्थितिमभिधातुं प्रतिज्ञामाह -० ॥ १३४२ ॥ यथा - येनैवावस्थानप्रकारेण सुरगणानां तथेति ।। ५१ ।। १३४२ ॥ प० ॥ १३४३ ।। इयं वैमानिकविषयैव नेया, तत्र च सौधर्मैशानदेवानां द्विधाप्येतावदायुषः संभवात् उपल० चैतच्छेषनिकायतेजो० स्थितिः ।। ५२ ।। १३४३ ॥ ५० ॥ १३४४ ॥ अनेन निकायभेदमङ्गीकृत्यैव लेश्या स्थितिरुक्ता ।। ५३ ।। १३४४ ॥ जा० ।। १३४५ ॥ दश तु दशैव प्रस्तावात्सागराणि मुहूर्त्ताविकानि, इयं च जघन्या सनत्कुमारे उत्कृष्टा च ब्रह्मलोके, आह-यदीहान्तर्मुहूर्त्तमधिकमुच्यते ततः पूर्वत्रापि किं न तदधिकमुच्यते ? देवभवलेश्याया एव तत्र विवक्षितत्वाद् । अत्र हि प्रागुत्तरभवलेश्याऽपि 'अंतोमुडुतंमि एग 'त्ति वचनाद्देव भवसम्बन्धिन्येवेति
Jain Educationtional
For Private & Personal Use Only
परिशि. १०
ज्ञानसागर०
अव०
अन्त्य मागः
३८३॥
lainelibrary.org