________________
उत्तरा०
अवचूर्णिः
॥ ३८१ ।।
लेस० ।। १२९ ।। लेश्याभिधायकमध्ययनं लेश्याध्ययनं, कमलेश्यानां कर्मस्थितिविधातृतत्तद्विशिष्टपुद्गलरूपाणामनुभावान्-रसविशेषान् शृणुत मे कथयत इति शेषः || १ || १२९२ ।। द्वारसूत्र माह – नामाइ० ।। १२९३ ।। परिणामो - जघन्यादिर्लक्षणं पञ्चाश्रवा सेवनादि, एषां समाहारद्वन्द्वः, स्थानम् - उत्कर्षापकर्षरूपम्, स्थितिम् - अवस्थानकालम्, गतिं च- नरकादिकां यतो याऽवाप्यते आयुर्यावति च तत्राविशेष्यमाणे आगामिभवलेश्यापरिणामस्तदिद्द गृह्यते || २ || १२९३ ॥ नामान्याह - किन्दा ० || १२९४ ॥ आसां वर्णानाह - जीमू० ।। १२९५ ॥ स्निग्धवासौ सजलत्वेन जीमूतच स्निग्धजीमूतस्तद्वत् सम्यक्काशते वर्णतः प्रकाशत इति स्निग्धजीमूतस काशा, गवलं - महिषशृङ्गः, रिष्टक:- फलविशेषस्तत्सन्निभा, 'खंजण' त्ति खनन - अअनं-कअलं नयनं चोपचारात्तदेकदेशस्तन्मध्यवर्ती कृष्णसारस्तत्सन्निभा, वर्णत एव-वर्णमेवाश्रित्य न तु रसादीन् ॥ ४ ॥। १२९५ ।।
नील० ।। १२९६ ।। स्निग्धवैर्यसंकाशा ।। ५ ।। १२९६ ॥ अय० ।। १२९७ ॥ अतसी-धान्यविशेषः तत्पुष्यसङ्काशा, , कोकिलच्छन्द:- तैलकण्टकः, तत्संनिभा, कापोतलेश्या तु वर्णतः किञ्चित्कुष्णाकिञ्चिच्च लोहितेति भावः ।। ६ ।। १२९७ ॥ हिंगु ।। १२९८ ॥ हिङ्गलकः - धातुश्च पाषाणघात्वादिस्तत्संकाशा || ७ || १२९८ ॥ हरि० | १२९९ ॥ हरितालभेदसंकाशा, भिन्नस्य हि वर्णप्रकर्षः स्यादिति भेः ग्रहः, सणो-धान्यविशेषोऽसनो - चीयकस्तत्कुसुमनिभा पीतवर्णेत्यर्थः ।। ८ ।। १२९९ ।। संखं० ॥१३०० ॥ अङ्को - मणिविशेषः ।। ९ ।। १३०० ॥ रसमाह -
ज० || १३०१ ॥ यथेति यादृकटुक तुम्बकरसः कटुका चासौ रोहिणी च त्वग्विशेषः कटुकरोहिणी तद्रसो वा ॥ १०॥१३०१ || जह० | १३०२ ॥ तीक्ष्णो यथा हस्ति० - गजपिप्पल्या वाऽनन्तगुणोऽतिशय तीक्ष्णः ॥ ११ ॥ १३०२ ॥ जह० १३०३ ॥
Jain Education national
For Private & Personal Use Only
परिशि. १०
ज्ञानसागर०
अव० अन्त्यभागः
४ ॥ ३८१ ॥
w.jainelibrary.org