________________
उत्तरा०
वचूर्णिः
३७३ ॥
'यावच्छरीरस्य मेद ' इति ब्रुवता मरणकालेऽप्यश्रमादः कार्य इत्युक्तम्, स च मरणविभागपरिज्ञानत एव स्यादित्यनेन सम्बन्धेनेदं सूत्रम्
अण्ण० ॥ १२८ ॥ अर्णवे - भावतः संसारे महानोघः- भावतो भवपरम्परात्मको यस्मिन् अत्र सुब्ब्यत्यये, अर्णवान् महौघारुतारत्तीर्णः, एको घातिकर्मसाहित्यरहितस्तत्र देवनरपर्पदि, एकोऽद्वितीयः स तीर्थक्रदेव, महती प्रज्ञा - केवलज्ञानात्मिका संवित् अस्य, स, इमं प्रश्नं - प्रष्टव्यम् ॥१२८॥ तत्किमित्याह - संति मे० ॥ १२९ ॥ स्त इमे प्रत्यक्षे एते, द्वे तिष्ठन्ति अनयोर्जन्तव इति स्थाने आख्याते' पूर्वतीर्थक्रुद्भिः, मरणमेवान्तः- निजायुः पर्यन्तः तस्मिन्भवे मारणान्तिके ॥ २ ॥ १२९ ॥ केषां पुनरिदं कियत्कालं चेत्याह —चालाणं० ॥ १३० ।। अकाममेवासकृत् ते हि विषयाभिष्वङ्गतो मरणमनिच्छन्त एव म्रियन्ते, सकाममिव सकामं मरणं प्रत्यसंत्रस्ततया तथात्वभूतत्वाच्च तस्य तादृशां तच्च केवलिसम्बन्धि ज्ञेयम् जघन्येन तु शेषचारित्रिणः सप्ताष्ट वा वारान् भवेत् ॥ ३ ॥ १३० ॥ तत्थिमं० ।। १३१ ॥ क्रूराणि हिंसादिकर्माणि करोति क्रियया, शक्तावशक्तावपि मनसा कृत्वा च प्रक्रमादकाम एव म्रियते
1
॥ ४ ॥ १३१ ॥ इदमेवाह – जे० ॥ १३२ ॥ कामौ - शब्दरूपाख्यौ भोगाः – स्पर्शरसगन्धाख्याः तेषु एकः - कश्चित् क्रूरकर्म्मा तन्मध्यात्कूटमिव कुटं - प्राणिनां यातनाहेतुत्वान्नरकस्तस्मै कूटाय, प्रेरितश्च कैश्चिद्वदति-न मया दृष्टः परलोकः, चक्षुदृष्टेयं, रतिः-कामसेवनरूपा चित्तप्रहृत्तिः तस्यायमाशयः - कथं दृष्टपरित्यागतोऽदृष्टपरिकल्पनयाऽऽत्मानं विप्रलम्मेयम् ।। ५ ।। १३२ ।। पुनस्तदाशमेवाह - हत्था० ॥ १३३ ॥ हस्तागता इव स्वाधीनतया, काले संभवन्तीति, अनिश्चितकालान्तरप्राप्तयो ये ' अनागता' भाविजन्मसम्बन्धिनः, यतः कः पुनर्जानाति १ यथा परलोकोऽस्ति नास्ति वा ॥ ६ ॥ १३३ ॥ ततोऽसाविदमाह - जणेण ० ॥ १३४ ॥
For Private & Personal Use Only
Jain Educationmational
परिशि. १०
ज्ञानसागर०
भव०
आदिभागः
३७३ ॥
w.jainelibrary.org