SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ अन्त्यकाले एव क्रियतामित्याशङ्कयाह स पु० ।। १२३ ।। यः पूर्वमेव प्रमत्ततया भावितमतिनं स्यात् स तदात्मकं छन्दोनिरोधम्, एवमुपमार्थत्वात् पूर्वमिव न लभेत, पश्चाद्-अन्तकाले, एषोपमा शाश्वतवादिनां - आत्मनि मृत्युमनियतकालभाविनमपश्यताम्, पश्चादपि छन्दोनिरोधमप्राप्नुवन् विषीदति, शिथिलयति - आत्मप्रदेशान्मुञ्चति आयुषि कालेन - मृत्युनोपनीते शरीरस्य भेदे, अत आदित एव न प्रमादवद्भिर्भाव्यम् ॥ ९ ॥ १२३ ॥ कस्मान्न लभत इत्याह-- खिणं० ॥ १२४ ॥ विवेकं द्रव्यभावसङ्गत्यागरूपं, एतुं गन्तुं सम्यक्प्रवृत्या उत्थाय समेत्य सम्यग्ज्ञात्वा लोकं - सर्वप्राणिवर्गम्, समतया, महर्षिः सन् आत्मानं रक्षत्यवायेभ्यः कुगतिगमनादिभ्य इत्येवंशीलो, मकारोऽलाक्षणिकः, चराप्रमत्तः ॥ १० ॥ १२४ ॥ प्रमादमूलं च रागद्वेषाविति सोपायं तत्परीहारमाह- मुहुं ॥ १२५ ॥ मंदा० ॥ १२६ ॥ युग्मम् || मुहुर्मुहूः - वारंवारं मोहगुणोपकारिणः शब्दादयः तान् जयन्तम्, अनेकरूपाः स्पृशन्ति स्वानि स्वानीन्द्रियाणि गृह्यमाणतयेति स्पर्शाः शब्दादयस्ते स्पृशन्ति । गृह्यमाणतयैव सम्बन्धन्ति, असम असं - अननुकूलमिति क्रियाविशेषणम्, अपिलुप्तः, मनसाऽप्यास्तां वाचा कायेन वा प्रादुष्यद् ।। ११ ।। १२५ ।। तथा मन्दायन्ति विवेकिनमप्यज्ञतां नयन्ति, मन्दाः स्पर्शाः शब्दादयो बहुलोभनीयाः ॥ १२ ॥ १२६ ॥ चारित्रशुद्धिरुक्ता सा च न सम्यक्त्वशुद्धि विनातस्तदाहजे सं० ।। १२७ ।। ये संस्कृताः - तान्त्रिकशुद्धिमन्तः किन्तु उपचरितवृत्तयः, तुच्छा - यद्दच्छाभिधायितया निःसारा परप्रवादिनः, ते प्रेमद्वेषानुगताः, अत एव ' परज्झा' त्ति परवशा रागादिग्रस्तत्वात् एते अधमहेतुत्वात् अधर्मः इतीत्यमुनोल्लेखन जुगुप्समानः न तु निन्दन्, निन्दायाः सवत्र निषेधात्, काइक्षेत गुणान् - ज्ञानाद्यात्मकान् ।। १३ ।। १२७ ।। ॥ इति चतुर्थमध्ययनम् ॥ Jain Education national For Private & Personal Use Only उत्त० ६३ www.jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy