________________
दुर्लभचतुरङ्गी लब्ध्वा प्रमादाप्रमादौ हेयोपादेयतयाह, अनेन संवन्धेनायातमिदं सूत्रम् - आसं० ॥ ११६ ॥ असंस्कृतं शक्रशतैरपि सतो वर्द्धयितुं त्रुटितस्य वा कर्णपाशवदस्य सन्धातुमशक्यत्वात् जीवितं, ततो मा प्रमादीः कुतो ? असं० जरया उपनीतस्य - प्रक्रमान्मृत्युसमीपं नीतस्य, यस्मान्नास्ति त्राणम्, एवं प्रागुक्तमर्थं विजानीहि अवबुध्यस्व तथैतच्च वक्ष्यमाणम् यथा जनाः प्रमत्ताः सूत्रत्वादेकवचनम्, किमर्थं प्रकमात् त्राणम्, 'नु' वितर्के, विविध हिंस्राः, अयताः ग्रहीष्यन्ति । असंस्कृतं जीवितं व्यचिख्यासुराह -- तत्र मा प्रमादी रियुक्तेऽर्थोपार्जनं प्रत्यप्रमादः कार्य इति केषांचित्कदाशयः तमपाकर्तुमाह-
4
जे० ॥ ११६ ॥ पापकर्मभिः - - कृषिवाणिज्यादिभिः अमतिं धनमेव सर्वैहिकामुष्मिकफलनिबन्धमिति कुमतिं गृहीत्वा 'पहाय 'ति प्रकर्षेण हित्वा पाशेषु-स्त्रयादिषु प्रवृत्ता नरा वैरं कर्म तेनानुबद्धाः || २ || ११६ ॥ कर्मणामवन्ध्यतामभिदधन् प्रकृतमेवार्थ द्रढयन्नाह - तेणे० ॥ ११७ ॥ स्तेन: चौरः यथा सन्धिमुखे - क्षत्रद्वारे गृहीत्वा आत्तः स स्वानुष्ठानेन कृत्यते - छिद्यते, अत्र संप्रदायः - कस्यचित्फलकचिते गृहे चौरेण प्राकारकपिशीर्षाकृतिक्षत्रं कृतं तत्र विशन्नन्तः स्थगृहस्वामिना बहिस्थः । स विललाप, एवं प्रजाः तथाविधवाधानुभवनेन प्रत्ये इह कृत्यन्ते अवकृत्यन्ते, कृतकर्मणां न मोक्ष इति ॥ ३ ॥ ११७ ॥ संसा ॥ ११८ ॥ संसरणं संसारस्तमापन्नः परस्य पुत्रकलत्रादेः अर्थाद् अर्थ-- प्रयोजनमाश्रित्य 'चः ' एवार्थे साधारणं वा यदात्मनोऽन्येषां चैतद्भविष्यतीति चिन्तापूर्वकं करोति भवान् कर्म - कृष्यादि ते तब हे कृष्पादिकर्मकर्त्तः ! तस्य वेदी- विपाकस्तत्कालेनैव बान्धवाः- स्वजनाः, बान्धवतां तद्विभजनापनयनादिना उपयान्तीति ॥ ४ ॥ ११८ ॥ कर्मणः स्वजनान्न मुक्तिरित्युक्तम्,
Jain Education lational
For Private & Personal Use Only
jainelibrary.org