________________
%
%
%
%
भिजानामि, अथेत्युत्कर्षानन्तरं अपथ्यानि-आयतिकटुकानि कर्माण्यज्ञानफलानि उदेष्यन्ति ॥ ४१ ॥ ८९॥ एवमाश्वासयप्रज्ञावलेपावलिप्तमात्मानं स्वस्थीकुरु, प्रज्ञाया ज्ञानरूपत्वात्तद्विपक्षभूतमज्ञानपरीपहमाह-अयमप्यज्ञानभावाभावाभ्यां द्विधा, तत्र भावपक्षमाश्रित्योच्यते-निर० ॥९० ॥ निरर्थके सति विस्तः, मैथुनात् , आश्रयान्तरविरतावपि अस्योपादानं दुस्त्यजत्वेन, सुसंवृतः इन्द्रियादिसंवरणेन, साक्षादिति परिस्फुटं नाभिजानामि धर्म-वस्तुस्वभावं कल्याणं-शुभम् , अयमाशयः-यदि विरतौ कश्चिदर्थः सिद्धथेन्नवं ममाज्ञानं भवेत् ॥ ४२ ॥९० ।। कदाचित्सामान्यचर्ययैव न फलावाप्तिरत आह- .
तवो० ॥९१ ॥ तपो-भद्रादिः उपधानं--आचाम्लादि आदाय-स्वीकृत्य चरित्वेत्यर्थः प्रतिमा मासिक्यादिकां 18 प्रतिपद्यमानस्य एवमपि सविशेषचर्ययाऽपि 'विहरतो 'ति अनियतं छादयतीति छम-ज्ञानावरणादिकम न निवर्त्तते, इति भिक्षुः उन चिन्तयेदित्युत्तरेण योगः । अज्ञानाभावपक्षे तु सर्वागमवेद्यप्येवं भावयेत. निरर्थकेपि प्रक्रमात्प्रज्ञावलेपे रतो मे । सन् योऽहं साक्षान्नाभिजानामि, अयमर्थः-"जे एगं जाणइ, से सव्वं जाणइ । जे स० से एगं०" इत्यागमात् छद्मस्थो
हमेकमपि धर्म वस्तुस्वरूपं न तच्चतो वेद्मि, ततः किमल्पपरिज्ञानतोऽवलेपेन, तपउपधानादिभिरप्यपक्रमणहेतुभिः अपक्रमितुमशक्ये छद्मनि दारुणे वैरिणि प्रतपति कः किल मेऽहङ्कारावसर इति ॥ ४३ ॥९१॥ अज्ञानाद्दर्शनेऽपि संशयीत कश्चिदिति तत्परीषहमाह-णस्थि० ॥ ९२ ॥ परलोकः-जन्मान्तरम् , ऋद्धि-तपोमाहात्म्यरूपा, आमषिध्यादिस्तपस्विनः, अश्वा किं बहुना ! वञ्चितोऽस्मि, भोगानामिति गम्यम् , इतीत्यमुना शिरस्तुण्डमुण्डोपवासादिना धर्मानुष्ठानेन ॥४४ ॥९२॥ अभू०
॥ ९३ ॥ अभूवन्-आसन् जिना महाविदेहे, विदेहाद्यपेक्षया, अथवा भविष्यन्ति जिना इत्यपि मृषा, ते जिनास्तित्ववादिन JainEducation-Romal
%
%
-
For Privale & Personal Use Only