________________
उत्तरा अवचूर्णिः
॥३६८
॥ ७७॥ सुखेन प्रसार्यते पिण्डादिग्राहयार्थमिति सुप्रसारको नैव, उत्तरतिशब्दस्य भिन्नक्रमादिति अस्माद्धेतोः श्रेयान् अगारवासः परिशि.१० तत्र न कश्चिद्याच्यते ॥ २९ ॥ ७७ ॥ श्रीवलदेवर्षिज्ञात-यथा स पुरादिप्रवेश निषिध्य बनान्तरे याश्चापरिषहं सोढवान् , तथाऽन्यैरपि । याश्चाप्रवृत्तश्च कदाचिल्लाभान्तरायदोषतो न लभेतापीत्यलाभपरीषहमाह-परेसु० ॥ ७८ ॥ परेषु-गृहस्थेषु ग्रासं-कवलमेषयेत्,
ज्ञानसागर
अव० भोजने ओदनादौ परे सिद्धे नानुतप्येत, उपलक्षणत्वाल्लब्धिवानहमिति न दृष्येत् ॥ ३० ॥ ७८ ॥ किमालाम्ब्य नानुतप्यतेत्याह
आदिभागः अजे० ॥ ७९ ॥ अद्यैवाहं न लभे 'अपिः' सम्भावने, सम्भाव्यत एतत् लाभः श्वः-आगामिनि दिने स्याद्-भवेत् उपलक्षणं च इत्यन्येधुरन्यतरेधुर्वा मा वा भूत् , 'पडिसंविखेति-प्रतिसमीक्षते-अलाभमाश्रित्यालोचयति, अलाभः-अलाभपरीषहस्तं न तर्जयति-नाभिभवति ॥ ३१ ॥ ७९ ॥ दण्डणकुमारवद् अलाभपरीषहः सोढव्यः॥ अलाभाचान्तप्रान्ताशिनां कदाचिद्रोगाः स्फुरन्त्यतस्तत्परीपहमाह-णचा० ॥ ८० ॥ उत्पतितं-उद्भूतं, दुःखयति इति दुःखः ज्वरादिरोगस्तम् , दुःखेनाः क्रियते स्म दुःखार्त्तितः, स्थापयेत्-दुःखार्तितत्वेन चलन्ती स्थिरीकुर्यात् प्रज्ञा स्वकर्मफलमेवैतदिति तच धियं, स्पृष्टोऽपि राज्यमादिभिः, तत्र| प्रज्ञास्थापने सति रोगोत्पाते वा अध्यासीत रोगजं दुःखम् ।। ३२ ।। ८०॥
तेगिच्छं ॥ ८१॥ चिकित्सा-रोगप्रतिकाररूपां नाभिनन्देत्-नानुमन्येत, अतो दुरापास्त करणकारणे, संचिक्खेसमाधिना तिष्टेत् , न कूजितानि कुर्यात् , आत्मानं-चारित्रात्मानं गवेषयतीत्यात्मगवेषकः, एतद्-वक्ष्यमाणां 'खुत्ति खलु-यस्मात्साधोः श्रामण्यं यन्न कुर्यान्न कारयेत् उपलक्षणत्वान्नानुमन्येत, चिकित्सामिति, जिनकल्पिकाद्यपेक्षं चैतत् , स्थविराः पुष्टालम्बने कारयन्त्यपि ॥ ३२ ॥ ८१ ॥ ज्ञातमाह-मथुरायां जितशत्रुनृपो वेश्यां कालाख्यां दृष्ट्वा तद्रूपमोहितोऽवरोधेऽक्षिपत्
"
॥ ३६८॥
viational
For Private & Personal use only
Kijainelibrary.org