________________
अव०
उत्तरा०परीषहमाह-संगो० ॥ ६४ ॥ सङ्गः एषो वक्ष्यमाणः, याः काश्चन मनुष्याद्याः स्त्रियः, एता हावभावादिभिः अत्यन्तासक्ति-परिशि.१० अवचूर्णिः | हतेत्रो मनुष्याणाम् , एतदुपादानं तेषामेव मैथुनसंज्ञा तिरेकात् , यस्य-यतेः एताः-स्त्रियः परिज्ञाताः, तत्र ज्ञपरिज्ञयाऽनर्थ
हेतुतया विदिताः, प्रत्याख्यानपरिज्ञया च त एव प्रत्याख्याताः, सुकृतं सुब्ब्यत्ययात्तेन श्रामण्यमिति ॥ १६ ॥ ६४ ॥ अतः ज्ञानसागर० ॥३६७ ॥ कि विधेयमित्याह-एव० ॥६५॥ एवमाज्ञाय बुद्धथा मेधावी पङ्कभूताः मालिन्यहेतुत्वने च, न ताभिः-स्त्रीभिर्विनिहन्याद्विशेषेण संयमजीवित विनाशात्मकेनातिशयेन तदुच्छेदरूपेणातिपातयेदात्मानम् , चरेद्धर्मानुष्ठानम् , आत्मगवेषकः सिद्धयन्वेषकः,
आदिभागः यथा श्रीस्थूलभद्रेण स्त्रीपरीषहः सोढ एवमन्यैरपि, न पुनस्तत्प्रतिस्पर्द्धिसाधुवत् ।। १७ ।। ६५ ॥ अयं चकत्र वसतः स्यादतश्चर्या B कार्या इति तत्परीषहमाह
एग० ॥६६॥ एक:-रागरहितश्चरेदप्रतिबद्धविहारेण एको वा असहायः, लाढयति प्रासुकैपणीयाहारेण साधुगुणा आत्मानं यापयतीति लाढः, अभिभूय-निर्जित्य परीषहान् , व पुनश्चरेद् ग्रामे वेत्यादि ॥१८॥६६॥ अस० ॥ ६७ ॥ न विद्यते समानोऽस्येत्यसमानः, परिग्रह-ग्रामादिकेषु ममत्वबुद्धथात्मकम् , अनिकेत:-अगृहः, परिव्रजेत्-सवतो विहरेत् , यथा सङ्गमस्थविरैश्चर्यापरीषहोऽध्यासितस्तथाऽन्यैरपि ॥ १९ ॥ ६७॥ चर्यावन्नैपेधिकीपरीपहोऽपि शरीरादिष्वप्रतिबद्धेनाधिसहनीय इति तमाह-सुसा० ॥ ६८॥ अकुक्कुचः-अशिष्टचेष्टारहितो निषीदेव-न च वित्रासयेत्परम् , श्मशानादावग्येककोऽप्यनेकभयानकोपलम्भेऽपि न स्वयं संबिभीयात् न चान्यं भापयेत् ॥२०॥ ६८॥ तत्रोपसर्गोत्पतौ कृत्यमाह-तत्थ० ॥ ६९॥ तत्र श्मशानादौ से-तस्य तिष्ठत उपसर्गाः संभवेयुरितिशषः, ततस्तानभिधारयेत् किमेतैर्मेऽचलितचतेसः स्यादिति चिन्तयेत् , D३
Jain Education national
For Privale & Personal use only
W
w.jainelibrary.org