________________
सम्पति नियुक्तिकारोऽप्येतन्माहात्म्यख्यापनायाहजे किर भवसिद्धिया परित्तसंसारिआ य भविआ या ते किर पढंतिधीरा, छत्तीसं उत्तरज्झयणे ॥ नि०५६०॥ य इत्यनिर्दिष्टनिर्देशे, किलेति सम्भावने, भवसिद्धिका-भव्याः, परीत्तः-परिमितः संसारो येषां ते परीत्तसंसारिका:प्रत्यासन्नीभूतमुक्तय इत्यर्थः, भव्याः-सम्यग्ज्ञानदर्शनादिगुणयोग्या भिन्नग्रन्थय इत्यर्थः, उभयत्र चः समुच्चये, व्यवच्छेदफलत्वात् वाक्यस्य त एव, किलेति परोक्षाप्तवादसूचकः, पठन्ति धीराः षट्त्रिंशद् उत्तराध्ययनानि, भवसिद्धिकादीनामेवैतत्पाठफलस्य सम्यग्ज्ञानादेः समुद्भावेन निश्चयतस्तत्पाठसम्भवः, अन्येषां व्यवहारत-एवेत्यभिधानम् ॥१॥५६० ॥
उक्तमेवार्थ व्यतिरेकेणाहजे हंति अभवसिद्धीया गंथिअसत्ता अणंतसंसारा । ते संकिलिट्टकम्मा अभविय उत्तरज्झाए ॥ नि०५६१॥
ये भवन्ति वचनव्यत्ययादभवसिद्धयः-अभव्याः .ग्रन्थिकसत्त्वा-अभिन्नग्रन्थय इत्यर्थः, अनन्तसंसारा-ये न कदाचित् मुक्तिमवाप्स्यन्ति अभव्याः, "भव्यावि ते अणंते" त्यादिवचनात् ,' भव्याः वा सक्लिष्टानि-अशुभानि कर्माण्येषां इति सक्लिष्टकर्माणः किमित्याह-सूत्रत्वात् अभव्याः-अयोग्याः, वचनव्यत्ययात् उत्तराध्यायेषु-उत्तराध्यायविषये, अध्ययने इति गम्यम् ॥२॥५६१॥
यतश्चैवमतिमाहात्म्यवन्त उत्तराध्यायास्ततो यद्विधेयं तदाहतम्हा जिणपन्नत्ते अणंतगमपजवेहि संजुत्ते। अज्झाएँ जहाजोगं गुरूपसाया अहिझिज्जा ॥ नि० ५६२ ॥
पठनापठने भव्याभव्यत्वम्
उत्तरा०५६
Jan Education
For Private & Personal use only
Y
anelibrary.org