________________
न्मखविकारादिकस्वरूप हसनं च-अट्टाहासादि विकथाश्च-परविस्मापकविविधोल्लापरूपाः शीलस्वभावहसनविकथास्ताभिर्विस्मा
पयन-विस्मयं कुर्वन् परं-अन्यं कन्दर्पयोगात्कन्दस्तेि च प्रस्तावात् देवास्तेषामियं तेषूत्पत्तिनिमित्ततया कान्दप्पी तां भाव्यते|आत्मसान्नीयतेऽनया आत्मेति भावना-तद्भावाभ्यासरूपा तां करोति, एतदनुसारेणोत्तरत्रापि भावनीयम् ॥२६२ ॥१६३५ ॥ ___ मन्त्राणामायोगो-व्यापारणं मन्त्रायोगस्तं, यद्वा सूत्रत्वान्मन्त्राश्च योगाश्च-तथाविधद्रव्यसम्बन्धा मन्त्रयोग तत् कृत्वाविधाय-व्यापार्य च भूत्या-भस्मनोपलक्षणात् मृदा सूत्रेण वा कर्म-रक्षार्थ वसत्यादेः परिवेष्टनं भूतिकर्म वा कौतुकादिव, प्राकृतत्वाद् यः प्रयुड़े, किमर्थ ? सात-सुखं रसा:-माधुर्यादयः ऋद्धिः-उपकरणादिसम्पद, एता हेतवो यस्मिन् प्रयोजने तत्सातरसद्धिहेतु, कोऽभिप्रायः? साताद्यर्थ आभियोगी भावनां करोति, इह च सातादिहेतोरभिधानं निःस्पृहस्यापवादत एतत्प्रयोगे प्रत्युत गुण इति ख्यापनार्थम् ॥ २६३ ॥ १६३६ ॥
ज्ञानस्य-श्रुतज्ञानादेः, केवलिनां, धर्मोपदेष्टा-आचार्यो धर्माचार्यस्तस्य, सहस्य साधवश्च सहसाधवस्तेषां अवर्णवादीति सर्वत्र योज्यं, तत्रावर्णः-अश्लाघात्मकः, स चाय-श्रुतज्ञानस्य पुनः पुनस्ते एव कायास्तान्येव व्रतानि तावेव च प्रमादाप्रमादाविहाभिधेयो, मोक्षाधिकारिणां च किं ज्योतियोनिपरिज्ञानेनेत्यादि भाषते, केवलिनां च किमेषां ज्ञानदर्शनोपयोगौ क्रमेण भवत उत यगपती चेत् क्रमेण तदा ज्ञानकाले न दर्शनं दर्शनकाले न ज्ञानमिति, परस्परावरणतैव प्राप्ता, अथ युगपत्तत एककालत्वाद् द्वयोरप्येकापत्तिः, धर्माचार्यस्य जात्यादिभिरविक्षेपणादि, उक्तं च-"जच्चाइहिं अवण्णं भासइ (विहसइ) वट्टइ नयावि उववाए। अहिओ छिद्दप्पेही पगासवाई अणणुकूलो ॥१॥" सङ्घस्य च-बहवः श्वशृगालादिसडास्तरकोऽयमिह सङ्कः? साधूनां च
कन्दादिभावनास्वरूपम्
Jain Education
a
l
For Private & Personal use only
NAainelibrary.org