________________
उत्तरा० अवचूर्णिः
॥३२७॥
जीवाजीव| विभक्तिरितिनाम पर्दिशत्तममध्ययनम्
मिथ्यादर्शन-अतत्त्वे तत्त्वाभिनिवेशरूपं तस्मिन् रताः-आसक्ता मिथ्या०, सम्यक्त्वादिविराधनायां ह्येतदासक्तिरेव स्यात्, सह निदानेन-साभिष्वङ्गप्रार्थनारूपेण वर्तन्ते इति सनिदानाः हुः-पूरणे, हिंसकाः-प्राण्युपमर्दकारिणः, इत्येवंरूपाः ये वियन्ते | जीवास्तेषां पुनर्दुर्लभा बोधिः-प्रेत्य जिनधर्मावाप्तिः ॥ २५६ ॥ १६२९ ॥
सम्यग्दर्शनरक्ता अनिदानाः शुक्लेश्यां अवगाढाः-प्रविष्टाः, शेषं स्पष्टम् ॥ २५७ ॥ १६३० ॥ मिच्छासूत्रं प्राग्वत्, ननु पुनरुक्तत्वात् अनर्थकमिदं सूत्रं, कृष्णलेश्यावगाहनमपि हिंसकत्वेन पञ्चाश्रवप्रमत्तत्वादितल्लक्षणाभिधानादर्थत उक्तमेव इत्यत्रोच्यते, नैवं, विशेषज्ञापनार्थत्वादस्य, विशेषश्च सर्वत्र तथाविधसंक्लिष्टपरिणामरूपता द्रष्टव्या, अन्यथा हि सामान्येनैतद् विशेषणविशिष्टानामपि तद्भवे भवान्तरे वा बोधिदर्शनात् व्यभिचार्येवेदं स्यादु, इह चाद्येन सूत्रेण कन्दर्पभावनादीनां दुर्गतिरूपानर्थस्य निबन्धनत्वमुक्तमर्थाच्च तद्विपरीतभावनानां सुगतिस्वरूपार्थस्य द्वितीयेन मिथ्यादर्शनरक्तत्वादीनां दुर्लभबोधिलक्षणानर्थस्य तृतीयेन सुलभबोध्यात्मकार्थस्य चतुर्थेनोक्तनीत्या मिथ्यादर्शनरक्तात्वादीनामेव विशेषज्ञापनम् ॥ २५८ ॥ १६३१॥ ___अन्यच्च-जिनवरवचनाराधनामूलमेव सर्व संलेखनादि श्रेयोऽतस्तत्रैवादरख्यापनायान्वयव्यतिरेकाभ्यां तन्माहात्म्यमाहजिणवयणे अणुरत्ता जिणवयणं जे करेंति भावेणं । अमला असंकिलिहा ते हंति परित्तसंसारी ॥१६३२॥ बालमरणाणि बहुसो अकाममरणाणि चेव बहुयाणि । मरिहंति ते वराया जिणवयणं जे न याति ॥१६३३॥ गाथा २, जिनवचने-आगमे अनुरक्ताः-सततं प्रतिबद्धाः जिनवचनमिति वाच्यवाचकयोरभेदोपचाराजिनवचनाभिहित
कन्दर्पादिभावनासु मरणाद्बोधेदुलक्वम्
॥३२७॥
Sain Educati
o
nal
For Private & Personal use only
Eomjainelibrary.org