________________
Jain Education
चत्तारि मासा तेसु तेलगंडूसे निसट्ठे घरेउं खेल्लमल्लए निडुहइ, मा अइरुक्खत्तणाओ मुहर्जतविसंवाओ भविस्सइ, तस्स य विसंवा णो सम्मं नमुकार साहेइ,” इतिसूत्रपञ्चकार्यः ॥ २५४ ॥ १६२७ ॥
इत्थं प्रतिपन्नानशनस्यापि अनुभभावनानां च मिथ्यादर्शनानुरागादीनां परिहार्यतां तद्विपर्ययाणामासेव्यतां च ज्ञापयितुं यथाक्रममनर्थहेतुतां अर्थहेतुतां च दर्शयन्नाह -
कंदप्पमाभिओगं किब्बिसियं मोहमासुरत्तं च । एयाओ दुग्गईओ मरणंमि विराहिया हुंति ॥ १६२८ ॥ मिच्छादंसणरत्ता, सनियाणा हु हिंसगा । इय जे मरंति जीवा, तेसिं पुण दुल्लहा बोही ।। १६२९ ॥ सम्मदंसणरत्ता अनियाणा सुक्कलेसमोगाढा । इय जे मरंति जीवा सुलभा तेसिं भवे बोही ।। १६३० ।। मिच्छादंसणरत्ता सनियाणा कण्हलेस मोगाढा । इय जे मरंति जीवा तेसिं पुण दुल्लहा बोही ।। १६३१ ।। सूत्र ४, कंदप्पत्ति पदेऽपि पदैकदेशस्य दर्शनात् कन्दर्पभावना, एवं आभियोग्यभावना, किल्बिषभावना, मोहभावना, आसुरत्वभावना च, एताः कन्दर्पादिभावना दुर्गतिहेतुतया दुर्गतयो, “नइलोदकं पादरोग” इति न्यायतः, दुर्गतिश्चेहार्थात् देवदुर्गतिः, तद्वशतो हि संव्यवहारतश्चारित्रसत्तायामप्येतद्विधनिकायोत्पत्तिरेव, चरणविकलतायां नानागतिभाजनतैव, उक्तं हि - "जो संजओवि एआसु अप्पसत्थासु भावणं कुणइ । सो तव्विहेसु गच्छइ सुरेसु णिओ चरणहीणो ॥ १ ॥” कदेत्याह-मरणेमरणसमये, कीदृशाः सत्यः इत्याह - विराधिकाः सम्यग्दर्शनादीनामिति गम्यं भवन्ति - जायन्ते, इह च मरण इत्यभिधानं पूर्वमेतत्सत्तायामप्युत्तरकालं शुभभावे सुगतेरपि सम्भवात् ॥ २५५ ॥ १६२८ ॥
ational
For Private & Personal Use Only
XXXXXX6
कन्दर्पादि
भावनासु मरणाद्वोघेदुर्लभत्वम्
w.jainelibrary.org