________________
उत्तरा० अवचूर्णिः
जीवाजी विभक्ति| रितिनाम पट्रिंशत्तममध्ययनम्
॥३२६॥
Xoxo0OXOXOXOXOXOXOXXDE
एकेन चतुर्थलक्षणेन तपसा अन्तरं-व्यवधानं यस्मिन् तदेकान्तरं आयाम-आचाम्लं कृत्वा संवत्सरौ द्वौ ततस्तदनन्तरं संवत्सरार्द्ध-मासपट्कं तुः-पूरणे न-नैवातिविकृष्टं-अष्टमद्वादशादि तपश्चरेत्-आसेवेत् ॥ २५२ ॥ १६२५॥
ततः संवत्सरार्द्ध तुः पुनस्तोरेवार्थत्वात् विकृष्टमेव तपश्चरेत् , अत्रैव विशेषमाह-परिमिअंचेवत्ति, चः पूरणे, ततः परिमितमेव-स्वल्पमेव, द्वादशे हि वर्षे कोटीसहितमायाममिह तु चतुर्थादिपारणके एवेत्येवमुक्तं, आयाम-आचाम्लं तस्मिन्ननन्तरं द्विधा विभाज्योपदर्शिते संवत्सरे कुर्यात् ॥ २५३ ॥ १६२६ ॥ ___इत्थमेकादशसु वर्षेष्वतिक्रान्तेषु द्वादशे वर्षे किमसौ कुर्यादित्याह
कोव्यौ-अग्रे प्रत्याख्याताद्यन्तकोणरूपे सहिते-मिलिते यस्मिन् तत्कोटीसहितमुच्यते, कोऽर्थो । विवक्षितदिने प्रातराचाम्ल प्रत्याख्याय तच्चाहोरात्रं प्रतिपाल्य पुनर्द्वितीये अति आचांम्लमेव प्रत्याचष्टे, ततो द्वितीयस्यारंभकोटी आधस्य पर्यन्तकोटी: उभे अपि मिलिते इति कोटीसहितमुच्यते, अन्ये त्याहुः-एकस्मिन् दिने आचाम्लं कृत्वा द्वितीयदिने च तपोऽन्तरमनुष्ठाय तृतीयदिने आचाम्लमेव कुर्वतः कोटीसहितमुच्यते, उभयार्थसंवादिनी चेयं गाथा-"पट्ठवणओ य दिवसो पञ्चक्खाणस्स निट्ठवणओ य । जहिअं समिति दोन्नि उतं भण्णइ कोडिसहिअंतु॥॥” इत्थमुक्तरूपं कोटीसहितमाचाम्लं कृत्वा संवत्सरे वर्षे प्रक्रमात् द्वादशे मुनिः-साधुः, मासंति सूत्रत्वात्मासंभूतो मासिकस्तेनैव, मार्द्धमासिकेनैव आहारेणन्ति उपलक्षणादाहारत्यागेन
तप इति प्रस्तावात् भक्तपरिज्ञादिकं अनशनं चरेत्-अनुतिष्ठेत् , निशीथचूर्णिसम्प्रदायश्चात्र-जहा य दीवस्स वत्ती तेल्लं च समं *णिट्ठाइ तहा बारसमे वरिसे आहारं परिहावेइ जहा आहारसंलेहणा आउअंच समं निट्ठवइ, इत्थं बारसगस्स वासस्स पछिल्ले
अनशनविधअन्त्यवर्षचर्या
॥३२६॥
Jain Educa
t
ional
For Privale & Personal use only
Low
.jainelibrary.org