________________
रुत्कृष्टजघन्यस्थित्योरपान्तरालवर्तिनी मध्यमा स्थितिरिति द्रष्टव्यं, तथा प्रथमे इति प्रक्रमात् गैवेयके अधस्तनाधस्तने एकं, द्वितीयादिषु अपि, ग्रैवेयके इति सम्बन्धनीयम् ॥ २१९-२३ ॥१५९२-९६ ॥
अविद्यमानं जघन्यस्थितित्वात् जघन्यत्वमस्यामिति अजघन्या सा चासौ अविद्यमानमुत्कृष्टमित्युत्कृष्टत्वमित्यनुत्कृष्टा च अजघन्योत्कृष्टा, मोऽलाक्षणिकः, महच्च तदायुःस्थित्याद्यपेक्षया विमानं च, तच्च तत्सर्वे-सम्पूर्णा अर्थ्यमानत्वादा-अनुत्तरसुखादयो यस्मिंस्तत्सर्वार्थ च तन्महाविमानसर्वार्थ तस्मिन् स्थितिः प्रक्रमाद्देवानाम् ॥ २२४-४३ ॥ १५९७-१६१६ ॥ तथाआयुःस्थितेरेव कायस्थितित्वाभिधानेन न तत्रानन्तरमुत्पत्तिरेवेत्यभिप्राय इति सप्तविंशतिः सूत्रार्थः ॥२४४ ॥ १६१७ ॥
अणंतकालमुभोसं, अंतो० देवाणं हुज अंतरं ॥ १६१८ ॥ एएसिं अन्नओ चेव० ॥१६१९ ॥ अन्तरविधानाभिधायि सूत्रद्वयं प्राग्वत् ॥ २४५-४६ ॥ १६१८-१९ ॥
इत्थं जीवानजीवांश्च सविस्तरमुपदर्य निगमयितुमाहसंसारत्था य सिद्धा य, इइ जीवा वियाहिया । रूविणो चेवऽरूबी य, अजीवा दुविहावि य ॥१६२०॥ संसारस्थाश्च इत्येवंप्रकारा जीवा व्याख्याता-विशेषेण सर्वमेदाभिव्यात्या कथिताः, रूपिणश्चैवारूपिणश्चाजीवा द्विविधा अपि च व्याख्याता इति योगः ॥२४७ ॥ १६२० ॥ ____सम्पति जीवाजीवविभक्तिमभिधाय शृणुतैकमनस इति वचनात् कश्चित् श्रवणश्रद्धानमात्रेणैव कृतार्थतां मन्येत, अतस्तदा शङ्कापनोदार्थमाह
जीवाजीवाध्ययन
निगमनम्
Jain Education Hotel
For Privale & Personal use only
Mainelibrary.org