________________
उत्तरा० ५४
Jain Education
सूत्रद्वयं क्षेत्रकालाभिधायि प्राग्वत् ॥ १५८-५९ ॥ १५३१ - ३२ ॥ नवरं सादिसपर्यवसितत्वं द्विविधस्थित्युक्तिद्वारतो भावयितुमाह - सागरोपममेकं तूत्कृष्टेन व्याख्याता प्रथमायां प्रक्रमान् नरकपृथिव्यां जघन्येन दशवर्षसहस्रिका प्रस्तावादायुः स्थितिः, नैरयिकाणामितीहोत्तरसूत्रेषु च द्रष्टव्यम् ॥ १६० ॥ १५३३ ॥ त्रीण्येव सागराणि - सागरोपमाणि, तुः पूरणे, उत्कृष्टेन व्याख्याता, द्वितीयायां, उत्तरत्र तु शब्दस्य पुनः शब्दार्थस्येह सम्बन्धात् जघन्येन पुनरेकं सागरोपमम् ॥ १६१ ॥ ॥ १५३४॥ सप्तेव सागराणि तूत्कृष्टेन व्याख्याता तृतीयायां, जघन्येन च पुनस्त्रीणि सागरोपमाणि ॥ १६२ ।। १५३५ ।। दशसागरोपमाणि तूत्कृष्टेन व्याख्याता चतुर्थ्यां जघन्येन पुनः सप्त सागरोपमाणि ॥ १६३ ॥ १५३६ ॥ सप्तदश सागरोप- * नैरयिकाणां माणि तूत्कृष्टेन व्याख्याता पञ्चम्यां जघन्येन पुनर्दश सागरोपमाणि ॥ १६४ ॥ १५३७ ॥ द्वाविंशति सागरोपमाणि तूत्कृष्टेन व्याख्याता षष्ठयां, जघन्येन सप्तदश सागरोपमाणि ॥ १६५ ॥। १५३८ ।। त्रयस्त्रिंशत् सागराणि तूत्कृष्टेन सप्तम्यां नरकपृथिव्यां जघन्येन द्वाविंशतिः सागरोपमाणि ॥ १६६ ॥ १५३९ ॥ आयुः स्थितिरुक्ता, कायस्थितिमाह —-या चेति चःवक्तव्यान्तरोपन्यासे, एवः - भिन्नक्रमश्चः पुनरर्थः, ततो यैव च पुराऽऽयुः स्थितिर्नैरयिकाणामाख्याता 'सि'त्ति एवकारस्य गम्यमानत्वात् सैव तेषां कायस्थितिः जघन्योत्कृष्टा भवेत्, इत्थं चैतत् तत उद्धृतानां पुनस्तत्रैवानुत्पत्तेः, ते हि तत उद्धृत्य गर्भ पर्याप्त वर्षायुष्केष्वेवोपजायन्ते ॥ १६७ ॥ १५४० ॥ अंतर्मुहूर्त्त जघन्यमन्तरं, यदा अन्यतरनरकादुद्धृत्य कश्चिज्जीवो गर्भजपर्याप्त कमत्स्यादिपूत्पद्यते, तत्र चातिसक्लिष्टाध्यवसायोऽन्तर्मुहूर्त्तमायुः प्रतिपाल्य मृत्वा चान्यतमनरक एवोपजायते तदा लभ्यते इति भावनीयम् || १६८-६९ । १५४१-४२ ॥
भवस्थितिकायस्थिती
tional
For Private & Personal Use Only
v.jainelibrary.org