SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Jain Educa BXOXOXO XGXXX य तोरप्यर्थत्वात्साधरणशरीरा अपि न केवलं प्रत्येकशरीरा इत्यपेरर्थः, आलुकमूलकादयो हरिद्रापर्यन्ताः प्रायः कन्दविशेषास्तत्तदेशप्रसिद्धाः, एवमादयः - इत्येवं प्रकाराः येषामिदं साधारणशरीरलक्षणमस्ति तद्यथा - " चक्कागं भज्जमाणस्स, गंठी चुण्णघणो भवे । पुढविसरिसेण भेएण, अनंतजीवं विआणाहि ॥ १ ॥ गूढच्छिरागं पत्तं सच्छीरं जं च होइ निच्छीरं । जंपि अ पण संधिं, अनंतजीयं विआणाहि || २ ||" इत्यादि ॥ ९६- १०१ ॥ १४६९-७४ ॥ पनका - उल्लिजीवाः, इह च तदुपलक्षिता सामान्येन वनस्पतयो गृह्यन्ते तेषां पनकानां पठन्ति चान्ये- "वणस्सईणं आउं तु अंतोमुहुत्तं जहन्नयं” इति, स्पष्टं, इह च प्रत्येकशरीरापेक्षया उत्कृष्टं दशवर्षसहस्रमानमायुरुक्तं, साधारणानां जघन्यत उत्कृष्टतश्चान्तर्मुहूर्त्तायुष्कत्वात्, उक्तं च- "णिओअस्स णं भंते ! केवइअं कालं ठिइपन्नत्ता ?, गोअमा ! जहणेणं अंतोमुहु उक्कोसेणं अंतोमुहुत्तं” ॥ १०२ ॥ १४७५ ॥ काय स्थितिः पनकानां, इहापि सामान्येन वनस्पतिजीवान्निगोदांश्चापेक्ष्योत्कृष्टतोऽनन्तकालमुच्यते, विशेषापेक्षायां हि प्रत्येकवनस्पतीनां तथा निगोदानां वादराणां सूक्ष्माणां चासङ्ख्येयकालैव स्थितिः, यदुक्तं - " पत्ते असरीरबायरवणप्फईकाइयाणं भंते! केवइयं काठई पन्नता ?, गो० जहन्नेणं अन्तोमुहुत्तं उक्कोसेणं सत्तरि सागरोवमकोडाकोडीणं" तथा "निओएणं भंते ! णिओदेति कालओ केच्चिरं होइ ?, जहन्नेणं अन्तोमुहुत्तं उक्कोसेणं अणन्तकालं अणन्ताओ उस्सप्पिणीओसप्पिणीओ खेत्तओ अड्डाइज्जा पोग्गलपरिअट्टा, बायरनिओयपुच्छा, जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं सत्तरिसागरोवमकोडाकोडीओ, सुहुमनिओअपुच्छा, जहन्नेणं अंतोमुहुत्तं, उकोसेणं असंखिज्जं कालं "ति ॥ १०३ ॥ १४७६ ॥ national For Private & Personal Use Only वनस्पतिका यस्वरूपम् www.jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy