________________
उत्तरा०
अवचूर्णिः
॥ ३१४ ॥
Jain Education
आहारपानग्रहणयोरपि, तेषां साधारणत्वाद्, उक्तं हि - "साहारणमाहारो साहारणमाणपाणगहणं च । साहारणजीवाणं साहारणलक्खणं एयं ॥ १ ॥” पत्तेअगा इति प्रत्येककाः - प्रत्येकशरीरा इत्यर्थः, एकमेकं प्रति प्रत्येकं एकैकशो विभिन्नं शरीरं येषां ते प्रत्येकशरीराः, तेषां हि यदेकस्य शरीरं न तदन्यस्येति, यदुक्तं - "जह सगलसरिसवाणं सिलेसमिस्साण वडिआ वत्ती । पत्तेअशरीराणं तह हुंति सरीरसंघाया ॥ १ ॥ जह वा तिलसक्कुलिआ बहूहि तिल्लेहिं मेलिआ संती । पत्तेअसरीराणं तह हुंति सरीरसंघाया ॥ २ ॥” प्रक्रमात् जीवा, ये इति शेषः, अनेकधा ते प्रकीर्त्तिताः, बारसविहभेएणं पत्तेआ उ विआहिआ इति पाठः, स्पष्टः, तानेवाह-वृक्षाः चूतादयस्ते च द्विधा - एकास्थिकाः - फलं २ प्रति एकवीजकाः निम्बाम्बकादयः, बहुजीवकाश्च पिष्पलकपित्थादयः, गुच्छा वृन्ताकीप्रभृतयः, गुच्छलक्षणं चेदं, - "जो एगमूलकंदो सरलो साहागणो समुट्ठेइ । अन्नुन्नमसंबद्धो स गुच्छसन्नो घणो सबो ॥ १ ॥” गुलमाश्च नवमालिकाकणवीराद्या, तथा चैषां लक्षणं- "जह गुच्छा तह गुम्मा, नवरं सरलत्तवज्जिओ किंचि । अन्नुन्नं अणुलग्गो साहापसरो हवइ गुम्मो ॥ १ ॥" लता अत्युच्चा एकाकिन्य अतितुच्छपृथुलाः पद्मलताचम्पकलताद्याः, वल्लयः प्रसिद्ध स्वरूपास्त्रपुष्पीचिर्भटिकानागवल्यादयः, तृणानि जुञ्जकार्जुनादीनि, लतावलयानि नालिकेरीकदल्यादीनि तेषां च शाखान्तराभावेन लतारूपता त्वचो वलयाकारत्वेन च वलयता, पर्वाणि - सन्धयस्तेभ्यो जाताः पर्वजाः - इक्ष्वादयः, कुहणा भूमिस्फोटकविशेषाः सर्पछत्रकादयः, जले रुहन्तीति जलरुहाः सेवालपद्मादयः, औषधयः फलपाकान्तास्तद्रूपाणि तृ औषधितृणानि शाल्यादीनि हरितानि तन्दुलेयकादीनि तान्येव कायाः शरीराण्येषामिति हरितकायाः, चशब्द एषामेव स्वगतानेकभेदसूचकः ॥ ९२-९५ ॥ १४६५-६८ ॥
tional
For Private & Personal Use Only
*-*-*x
*-*-*-*- 6X
जीवाजीवविभक्ति
रितिनाम
षड्रिंशत्तम
मध्ययनम्
३६
वनस्पतिका
यखरूपम्
॥ ३१४ ॥
Jainelibrary.org