________________
बादरपृथिवीकाये, अमी भेदा इति शेषः, चस्य गम्यमानत्वात्, मणिविधानानि च - मणिभेदाः ॥ ७४ ॥ १४४७ ॥ अवचूर्णिः |पुनस्तानीत्याह – गोमेजकश्च रुचकः, अङ्कः स्फटिकश्च लोहिताक्षश्च मरकतः मसारगल्लः भुजमोचकः इन्द्रनीलश्च ॥ ७५ ॥। १४४८ ॥ चन्दनः, गैरिकः, हंसगर्भः, पुलकः, सौगन्धिकश्च बोद्धव्यः - ज्ञातव्यः, चन्द्रप्रभः, वैडूर्यः, जलकान्तः, सूरकान्तश्च, इह च पृथिव्यादयश्चतुर्दश हरितालादयोऽष्टौ गोमेज्जकादयश्च क्वचित्कस्यचित् कथञ्चिदन्तर्भावाच्चतुर्दशेत्यमी मीलिताः शषट्त्रिंत् ॥ ७६ ॥ १४४९ ॥ सम्प्रति प्रकृतोपसंहारपूर्वकं सूक्ष्मपृथिवी कायप्ररूपणामाह
उत्तरा०
॥ ३१२॥
(OXoxox
Jain Educatio
एए खरपुढवीए, भेया छत्तीसमाहिया । एगविहमनाणत्ता, सुहुमा तत्थ वियाहिया ॥ १४५० ॥ एते खरपृथिन्यास्तदविभागाच्च तत्स्थजीवानां भेदाः ३६ आख्याताः, एगविहमनाणत्ति, आर्षत्वादेकविधाः, किमित्येवंविधा ?, यत अविद्यमानं नानात्वं - नानाभावो भेदो येषां ते अनानात्वाः सूक्ष्माः तत्रेति तेषु सूक्ष्मबादररूपपृथिवीजीवेषु मध्ये व्याख्याताः ॥ ७७ ॥ १४५० ॥ एतानेव क्षेत्रत आह
सुहुमा य सव्वलोगंमि, लोग से य बायरा ।
तो कालविभागं तु, तेसिं बुच्छं चउव्विहं ॥ १४५१ ॥
सूक्ष्माः सर्वलोके-चतुर्दशरज्वात्मके, तत्र सर्वत्र सर्वदा तेषां भावात्, लोकस्य देशे-विभागे लोकदेशे, चः पुनरर्थे, बादराः क्वचित्कदाचिदसत्त्वेन सकलव्याध्यसम्भवात्, अधुना एतान् कालतोऽभिधित्सुः प्रस्तावनामाह - इतः क्षेत्रप्ररूपणादनन्तरं कालविभागं - कालभेदं, तुः पुनः, तेषां पृथिवीजीवानां वक्ष्ये, चतुर्विधं साद्यनादिसान्तानन्तभेदेन ॥ ७८ ॥ १४५१ ॥
tional
For Private & Personal Use Only
(X-601-0
जीवाजीवविभक्ति - रितिनाम पद्विंशत्तम
मध्ययनम्
३६
सूक्ष्मबादरपृथिवीकाय
क्षेत्रम्
॥ ३१२ ॥
Oww.jainelibrary.org