________________
परीताः, एवमनेन पर्याप्तापर्याप्तभेदेन, एते सूक्ष्मा बादराश्च द्विविधाः, पुनः प्रत्येकमिति भावः ॥ ७० ॥ १४४३॥ पुनरेषा- Iपृथिवीकायमुत्तरभेदानाह-बादरा ये पुनः पर्याप्ता द्विविधास्ते व्याख्याताः, कथमित्याह-श्लक्ष्णा इह चूर्णितलोष्टकल्पा मृदुः पृथिवी खरूपम् तदात्मका जीवा अप्युपचारात् श्लक्ष्णाः, एवमुत्तरत्रापि, खराः-कठिनश्चः समुच्चये, बोद्धव्याः-ज्ञातव्याः, श्लक्ष्णाः सप्तविधाः, तस्मिन्नित्युक्तरूपभेदद्वये ॥ ७१॥१४४४॥ यथा चामी सप्तविधास्तथाह-कृष्णाः नीलाश्च रुधिराः-लोहिता-रक्ता इत्यर्थः, हारिद्राः-पीताः, शुक्लाः तथेति समुच्चये, पंडुत्ति पाण्डुरा आपाण्डुरा ईषत् शुभ्रत्वभाज इत्यर्थः, इत्थं वर्णभेदेन षविधत्वं, इह च पाण्डुग्रहणं कृष्णादिवर्णानामपि स्वस्थानभेदेन भेदाढ़ेदान्तरसम्भवसूचकं, पनकः-अत्यन्तसूक्ष्मरजोरूपः स एव मृत्तिका पनकमृत्तिका, पनकस्य नभसि विवर्त्तमानस्य लोके पृथिवीत्वेनारूढत्वात्पूर्वभेदसङ्ग्रहेऽपि भेदेनोपादानं, तत एव मृत्तिकेति पृथिवीपर्यायोक्तिरपि, अन्ये त्वाहुः-पनकमृत्तिका मरुषु पटकेति रूढा, यस्याश्चरणाभिघाते झगिति उजम्भणं, खरपृथिवीभेदानाह-खरा प्रक्रमात् बादरपृथिवीजीवाः षट्त्रिंशद्विधाः ॥७२॥१४४५॥ तानेवाह-पृथिवीति शुद्धपृथिवी शर्करादिरूपा या न स्यात्, चः उत्तरभेदापेक्षया समुच्चये, शर्करा-लघूपलशकलरूपा, वालुका प्रतीता, उपलः गण्डशैलादिः, शिला च दृषदित्यर्थः, लवणं च समुद्रलवणादि ऊषश्च-क्षारमृत्तिका लवणोषी, अयस्तामत्रपुकसीसकरूप्यसुवर्णानि च प्रतीतानि, नवरं एषां सम्बन्धिनो धातव एवैवमुक्ताः, सदा तेषु तत्सत्तादर्शनार्थ चैवमुक्तं, तेषु ह्यमूनि प्रागपि सन्त्येव, केवलं मलविगमादाविर्भवति, वज्रश्च हीरकः ॥ ७३ ॥ १४४६ ॥ हरितालो हिङ्गुलको मनःशिलेति प्रतीतानि, सीसकश्च धातुविशेषः, अञ्जनं च समीरकं, प्रवालं च-विद्रुमः सीसकाञ्जनप्रवालानि, अभ्रपटलं प्रसिद्धं, अभ्रवालुका-अभ्रपटलमिश्रवालुका, बादरकाये इति
Jain Education
For Private & Personal use only
. s
ainelibrary.org
Hos/tional