SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ Jain Educati •®XXXX उक्तग्रन्थेनावगतमपि विप्रतिपत्तिनिरासार्थं पुनः क्षेत्रं स्वरूपं च तेषामाह लोग (गग्ग पा० ) दसे ते सव्वे, नाणदंसणसन्निया । संसारपारनिच्छिन्ना, सिद्धिं वरगईं गया | १४४० ॥ कदेशे ते सिद्धाः अनेन "मुक्ताः सर्वत्र तिष्ठन्ति, व्योमवत्तापवर्जिताः” इत्यपास्तं, सर्वगतत्वे ह्यात्मनामेवैतद्भवेत्, तथात्वे च सर्वत्र वेदनादिप्रसङ्गः, तथा सर्वे ज्ञानदर्शनसंज्ञिता इत्यनेन मा भूत् केषांचित् ज्ञानसञ्ज्ञा अपरेषां दर्शनसचैव केवला, किंतुभे अपि, संसारस्य पारं - पर्यन्तं निस्तीर्णाः पुनरागमनाभावलक्षणेनाधिक्येनाभिक्रान्ताः सं०, अनेन " ज्ञानिनो धर्मतीर्थस्य, कर्त्तारः परमं पदं । गत्वाऽऽगच्छन्ति भूयोऽपि भवं तीर्थनिकारतः ॥ १ ॥” इति मतमपास्तं, तेषां अनिष्ठितार्थत्वादिदोषप्रसङ्गेनापुनर।वृत्तेः, सिद्धिं वरगतिं गताः, अनेनोत्पत्तिसमये तेषामपि सत्क्रियत्वमस्तीति ख्याप्यते ॥ ६७ ॥ १४४० ॥ इत्थं सिद्धानुक्त्वा संसारिण आह संसारत्था उ जे जीवा, दुविहा ते वियाहिया । तसा य थावरा चेव, थावरा तिविहा तहिं ॥ १४४१ ॥ संसारस्थाः, तुः सिद्धेभ्यः सङ्ख्याकृतविशेषद्योतको, ये जीवा द्विविधास्ते व्याख्याताः, द्वैविध्यमाह - त्रसाश्च स्थावराञ्चैव, स्थावरास्त्रिविधाः तस्मिन्निति द्वैविध्ये सति, अल्पवक्तव्यत्वाच्च पश्चान्निर्देशेऽपि प्रथमं स्थावराभिधानम् ॥ ६८ ॥ १४४१ ॥ त्रैविध्यमेवाह पुढवी आउजीवा य, तहेव य वणस्सई । इच्चेए थावरा तिविहा, तेसिं भेए सुणेह मे ॥ ९४४२ ॥ जीवशब्दस्य प्रत्येकमभिसम्बन्धात्पृथिव्येव जीवाः पृथिवीजीवाः, आपो-जलं ता एव जीवास्तथा, तथैव च वणस्सइत्ति • tional For Private & Personal Use Only -०*०*** XX द्विविधा संसारिणः स्थावरात्रिविधाश्व jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy