SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः ॥३१॥ जीवाजीक विभक्ति| रितिनाम षट्रिंशत्तममध्ययनम् ___एकत्वेन-असहायत्वेन विवक्षिताः, एकं विवक्षितसिद्धमाश्रित्येत्यर्थः सादिकाः, अपर्यवसिता अपि च, यत्र हि काले ते सिद्ध्यन्ति स तेषां आदिरस्ति, न तु कदाचित् मुक्तेर्धस्यन्तीति न पर्यवसानसम्भवः, पृथक्त्वेन बहुत्वेन सामस्त्यापेक्षयेत्यर्थः, अनादिका अपर्यवसिता अपि च, न हि कदाचित्ते नाभूवन्न भविष्यन्तीति चेति ॥६५॥ १४३८॥ ___ सम्प्रत्येषामेवोपाधिनिरपेक्षं स्वरूपमाह अरूविणो जीवघणा, नाणदसणस(प्र.म)निया। अउलं सुहसंपत्ता, उवमा जस्स नत्थि उ ॥ १४३९ ॥ अरूपिणस्तेषां रूपाद्यभावात् , जीवाश्च ते सततोपयुक्ततया धनाश्च शुषिरपूरणतो निरन्तरनिचितप्रदेशतया जीवघनाः, प्राकृतत्वात् विशेषणस्य परनिपातः, ज्ञानदर्शने एव सञ्ज्ञा-सम्यगवबोधरूपा सञ्जातैषामिति ज्ञानदर्शनसंज्ञिताः-ज्ञानदर्शनोपयोगवन्तः, न विद्यते तुलेव तुला-इयत्ता परिच्छेदहेतुरस्येत्यतुला अपरिमितत्वात् , उक्तं च-"सिद्धस्स सुहो रासी, सबद्धापिंडिओ जइ हविज्जा। सोऽणंतवग्गभइओ सव्वागासे न माइज्जा ॥१॥" सुख-शर्म, समित्येकीभावेन दुःखलेशाकलङ्कितत्वलक्षणेन प्राप्ताः उपमा यस्य सुखस्य, तोरेवार्थत्वात् , नास्त्येव-न विद्यते एव, यत उक्तं-"लोके तत्सदृशो ह्यर्थः, कृत्स्नेऽप्यन्यो न विद्यते । उपमीयेत तयेन, तस्मान्निरुपमं स्मृतम् ॥१॥" न च विषयाभावतस्तत्र सुखशब्दाभिधेयाभाव एवेत्याशङ्कयं, चतुर्थत्वात्तस्य, | उक्तं हि-"लोके चतुर्विहार्थेषु, सुखशब्दः प्रयुज्यते । विषये १ वेदनाऽभावे २, विपाके ३ मोक्ष ४ एव च ॥१॥ सुखो वह्निः | सुखो वायुर्विषयेष्विह कथ्यते । दुःखाभावे च पुरुषः, सुखितोऽस्मीति मन्यते ॥२॥ पुण्यकर्मविपाकाच्च, सुखमिष्टेन्द्रियार्थजम् । कर्मक्लेशविमोक्षाच्च, मोक्षे सुखमनुत्तमम् ॥३॥” ततश्च मोक्षस्यैव तत्र सुखशब्दाभिधेयत्वान्न शङ्कायाः सम्भवः॥६६॥१४३९।। सिद्धस्वरूपम् ॥३१०॥ Jain Educati o nal For Private & Personal use only w.jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy