SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ सिद्धानामव* गाहनकाल मानौ उवरित्ति उपरिवर्त्ति भवेत्, तस्य क्रोशस्य षड्भागे-सत्रिभागत्रयस्त्रिंशदधिकधनुःशतत्रितयरूपे सिद्धानामवगाहना-अव स्थितिर्भवेत् ॥ ६२॥ १४३५ ॥ अवगाहना च ततश्चलनसम्भवेऽपि परमाण्वादीनामिवैकादिप्रदेशेषु स्यादत आह तत्थ सिद्धा महाभागा, लोगग्गंमि पइट्टिया । भवप्पवंचउम्मुक्का, सिद्धिं वरगई गया ॥१४३६ ॥ तत्रानन्तरोक्ते सिद्धाः महाभागा-अतिशयाचिन्त्यशक्तयो लोकाग्रे प्रतिष्ठिताः, एतच्च कुत इत्याह-भवा-नारकादयास्तेषां प्रपञ्चः-विस्तारस्तेनोन्मुक्ता-त्यक्तास्ते, ततः सिद्धिं वरा चासावितरगत्यपेक्षया गतिश्च गम्यमानतया वरगतिस्तां गताः-प्राप्ताः, अयमाशयः-भवप्रपञ्च एव चलने हेतुः स च सिद्धानां नास्तीति कुतस्तेषां तत्सम्भव इति ॥ ६३ ॥ १४३६ ॥ तत्र गतानां कस्य कियत्यवगाहनेत्याहउस्सेहो जस्स जो होइ, भवंमि चरमंमि उ । तिभागहीणा तत्तो य, सिद्धाणोगाहणा भवे ॥१४३७॥ उत्सेधः-उच्चत्वं प्रक्रमात् शरीरस्य जस्सत्ति-येषां सिद्धानां य इति यावत्प्रमाणो भवे चरमे-पर्यन्तवर्तिनि, तुः विशेषणेइदमपि प्राग्भवप्रज्ञापनीयनयापेक्षयेति विशेषयति, त्रिभागहीना-ततस्त्रिभागोनश्चरमभवोत्सेधात् , चः पुनः सिद्धानां यत्तदोर्नि, त्याभिसम्बन्धात्तेषां अवगाहना-स्वदेशनिचितिः, इयं च शरीरविवरापूरणत एतावतीति ज्ञेयं, यदुक्तं-"देहतिभागो झुसिरं तप्पूरणओ तिभागहीणु"त्ति ॥ ६४ ॥ १४३७ ॥ एतानेव कालत आह एगत्तेण साइया, अपज्जवसियावि य । पुहुत्तेण अणाइया, अपज्जवसियावि य ॥१४३८ ॥ KeXOXOXOXOXOXOKeXOXOKGKokan JainEducala For Privale & Personal use only winebrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy