________________
उत्तरा० अवचूर्णिः
जीवाजीवविभक्तिरितिनाम
शत्तम मध्ययनम्
॥३०९॥
संखंककुंदसंकासा, पंडुरा निम्मला सुभा। अज्जूणगेत्यादिगाथा, तत्र च-अर्जुन-शुक्लं यत्सुवर्ण तेन निवृत्ता अर्जुनसुवर्णकमयी, सेषत् प्राग्भारा, निर्मला-स्वच्छा, किमुपाधिवशत इत्याह-स्वभावेन-स्वरूपेण, उत्तानक-ऊर्ध्वमुखं, यच्छत्रमेव छत्रकं तत्संस्थिता तत्संस्थाना उत्तानकच्छत्रकसंस्थिता च भणिता उक्ता जिनवरैः, प्राक्सामान्येन छत्रसंस्थितेत्युक्तमिह तु उत्तानत्वं तद्विशेष उच्यते इति न पौन- रुत्यम् ॥ ६०॥ १४३३ ॥ शङ्खाङ्ककुन्दानि प्रतीतानि तत्संकाशा-वर्णतस्तत्सद्दशी, अत एव पाण्डुरा-श्वेता, निर्मला| निष्कलङ्का, शुभा-अत्यन्तकल्याणावहा, सुखा-सुखहेतुत्वेन ।
सीआए जोअणे तत्तो, लोयंतो उ वियाहिओ ।। १४३४ ॥ यदीदृशी सा पृथ्वी ततः किमित्याह-शीतायाः-शीताभिधानायाः पृथ्व्या उपरीति शेषः योजने, तत इति तस्या उक्तरूपायाः लोकान्तः-लोकपर्यन्तः, तुः पूरणे ॥ ६१ ॥ १४३४ ॥
ननु यदि योजने लोकान्तस्तत्किं तत्र सर्वत्र सिद्धास्तिष्ठन्त्युतान्यथेत्याहजोअणस्स उ जो तत्थ (तस्स पा०), कोसो (कोसस्सवि य जो तत्थ, छन्भागो पा०) उवरिमो भवे ।
तस्स कोसस्स छन्भाए, सिद्धाणोगाहणा भवे ॥१४३५॥ योजनस्य तुक्यान्तरोपन्यासे यः तत्रेत्येवं व्यवस्थिते सुब्व्यत्ययेन वा तत्रेति तस्येषत्प्राग्भारोपरिवर्तिनः क्रोशः-गव्यूतं
ईषत्प्रागभारातो लोकान्तं कुत्र
सिद्धश्च
*॥३०९॥
Jain Education
nal
For Private & Personal use only
jainelibrary.org