________________
स्वरूपम्
KOXOXOXOXOXOXOXOXOXOXOXOX
सयसहस्सा, जोअणाणं तु आयया। तावइयं चेव विच्छिन्ना, तिगुणो साहिय (तस्सेव) परिरओ (तिगुणसाहियपरिरयं पा०)॥ १४३१ ॥ अट्ठजोयणबाहल्ला, सा मज्झमि वियाहिया। परिहायंती चरिमंते मच्छीपत्ताउ तणुययरी ॥ १४३२॥
गाथा ५, द्वादशभिर्योजनैः सर्वार्थस्य-सर्वार्थनाम्नोविमानस्योपरि-ऊवं भवेत् स्यात् , ईषत्पाग्भारेति नाम यस्याः सा ईषप्राग्भारनामा पृथ्वी-भूमिः, छत्रसंस्थितमिव संस्थितं-संस्थानं अस्या इति छत्रसंस्थानसंस्थिता, इह च विशेषानभिधानेऽप्युत्तानमेव छत्रं गृह्यते ॥ ५७ ॥१४३०॥ पञ्चचत्वारिंशत् शतसहस्राणि योजनानां, तुः पूरणे, आयता-दीर्घा, तावतश्चैव प्रक्रमात् शतसहस्राणि विस्तीर्णा-विस्तरतोऽपि च, पञ्चचत्वारिंशल्लक्षप्रमाणेति भावः, त्रिगुण उक्तरूपादायामात् साधिकोविशेषाधिकः परिरयः-परिधिः॥५८॥१४३१॥ अष्टौ-अष्टसङ्ख्यानि योजनानि बाहल्यं स्थौल्यं अस्या इत्यष्टयोजनबाहल्या, सा ईषत्याग्भाराख्या, किं सर्वत्रास्त्येवमित्याह-मध्ये-मध्यप्रदेशे व्याख्याता, किमित्येवमत आह-परि-समन्ताद्-हीयमाना चरमान्तेषु-सकलदिग्भागवर्तिषु पर्यन्तप्रदेशेषु मक्षिकायाः पत्रं-पक्षो मक्षिकापत्रं अपेर्गम्यत्वात् , मक्षिका पत्रादपि तनुतरी, अतिपरिकृशेत्यर्थः, हानिश्चात्र विशेषानभिधानेऽपि प्रतियोजनमङ्गलपृथक्त्वं द्रष्टव्या, तथा चोक्तं-"गंतूण जोअणं तु परिहायइ अंगुलपुहुत्त"न्ति ॥ ५९॥१४३२॥
अत्र केचित्पठन्तिअज्जुणसुवन्नगमई, सा पुढवी निम्मला सहावेणं । उत्ताणयछत्तयसंठिया य भणिया जिणवरेहिं (पा०)॥१४३३॥
Sain Educati Durational
For Private & Personal use only
X
w jainelibrary.org