________________
उत्तरा० अवचूर्णिः ॥३०८॥
जीवाजीक विभक्तिरितिनाम षट्रिंशत्तम | मध्ययनम्
इत्थं पूर्वभावप्रज्ञापनीयनयापेक्षयाऽनेकधा सिद्धा उक्ताः, सम्प्रति प्रत्युत्पन्नभावप्रज्ञापनीयनयापेक्षया तेषामेव प्रतिघातादिप्रतिपादनायाह__ कहिं पडिहया सिद्धा?, कहिं सिद्धा पइट्टिया? । कहिं बुदि चइत्ताणं, कत्थ गंतूण सिज्झई ? ॥ १४२८॥ __ अलोए पडिहया सिद्धा, लोयग्गे य पइट्ठिया। इहं बुंदि चइत्ता णं, तत्थ गंतूण सिज्झई ।। १४२९ ॥
गाथा २, कस्मिन् स्थाने प्रतिहताः-स्खलिताः-निरुद्धगतय इत्यर्थः सिद्धाः?, कस्मिन् सिद्धाः प्रतिष्ठिताः?, साद्यनन्तं कालं स्थिताः, अन्यच्च व बुन्दि-शरीरं त्यक्त्वा कुत्र गत्वा वचनव्यत्ययात् सिद्ध्यन्ति ? ॥ ५५॥ १४२८ ॥ तत्प्रतिवचनमाहअलोके-केवलाकाशरूपे प्रतिहताः-स्खलिताः, तत्र धर्मास्तिकायाभावेन तेषां गतेरसम्भवात् , लोकाग्रे च-लोकस्योपरिभागे प्रतिष्ठिताः-सदा अवस्थिताः, आह-ऊर्ध्वगमाभावेऽप्यधस्तिर्यग्गमनसम्भवेन कथं तेषां तत्र प्रतिष्ठानम् ?, उच्यते, क्षीणकर्मत्वातेषां, कर्माधीनत्वाच्चाधस्तिर्यग्गमनयोः, इह तिर्यग्-लोके त्यक्त्वा तत्र लोकाग्रे गत्वा वचनव्यत्ययात्सिद्ध्यन्ति, गत्वेति च 'मुखं व्यादाय स्वपिती'त्यादिवत्क्त्वाप्रत्ययः, पूर्वापरकालविभागस्यासम्भवात् , यत्रैव हि समये भवक्षयस्तस्मिन्नेव मोक्षस्तत्र गतिश्चेति ॥५६॥ १४२९॥
लोकाग्रे गत्वा सिद्ध्यन्तीत्युक्तं लोकाग्रं चेषत्प्राग्भाराया उपरीति यावति प्रदेशेऽसौ यत्संस्थाना यत्प्रमाणा यद्वर्णा च | तद्वक्तुमाह
बारसहिं जोयणेहिं, सव्वट्ठस्सुवरिं भवे । ईसीपब्भारनामा उ, पुढवी छत्तसंठिया ॥ १४३० ॥ पणयाल
XOXO
सिद्धानां स्थानादि
॥३०८॥
Jain Educati
o
nal
For Privale & Personal use only
that.jainelibrary.org