________________
क कियन्तः सिद्ध्यन्ति ?
इत्थं स्त्रीसिद्धादीनभिवदता स्त्रीत्वादिषु सिद्धिसम्भव उक्तः, सम्प्रति तत्रापि व कियन्तः सिद्ध्यन्तीत्याशङ्कयाह
दस य नपुंसएमुं, वीसं इत्थियासु य । पुरिसेसु य अट्ठसयं, समएणेगेण सिज्झई ॥१४२४ ॥ चत्तारि य गिहिलिंगे, अन्नलिंगे दसेव य । सलिंगेण य अट्ठसयं, समएणेगेण सिज्झई ॥ १४२५ ॥ उक्कोसोगाहणाए उ, सिज्झंते जुगवं दुवे । चत्तारि जहन्नाए, जवमज्झत्तरं सयं ॥१४२६ ॥ चउरुडलोए य दुवे समुद्दे, तओ जले वीसमहे तहेव । सयं च अट्टत्तर तिरियलोए, समएणेगेण उ सिज्झई धुवं ॥ १४२७ ॥ (चउरो उट्ठलोगंमि, वीसपहुत्तं अहे भवे । सयं अट्ठोत्तरं तिरिए, एगसमएण सिज्झई ॥१॥ दुवे समुद्दे सिझंती, सेसजलेसु ततो जणा । एसा उ सिज्झणा भणिया, पुव्वभावं पडुच्च उ॥२॥ पा०) ___ गाथा ४, दश २ सङ्ख्याः, च उत्तरापेक्षया समुच्चये, नपुंसकेषु-वर्द्धितचिर्पितादिषु, विंशतिः स्त्रीषु च पुरुषेषु चाष्टभिरधिकं शतं समयेन-निर्विभागकालरूपेणैकेन-एकसङ्ख्येन सिद्ध्यन्ति निष्ठितार्था भवन्ति ॥ ५१ ।। १४२४ ॥ चत्वारो गृहिलिङ्गे, दशैव चान्यलिङ्गे, स्वलिङ्गेन चाष्टशतम् ॥५२॥ १४२५ ॥ उत्कृष्टावगाहनायां तु सिद्ध्यतो युगपद्-एककालं द्वौ-द्विसङ्ख्यौ, चत्वारः चतुःसङ्ख्या जघन्यावगाहनायां, यवमध्यमिव यवमध्यं-मध्यमावगाहना तस्यां १०८, यवमध्यत्वं चैषां मध्यमावगाहनायां उत्कृष्टजघन्यावगाहनयोर्मध्यवर्तित्वात्तदपेक्षया च बहुतरसङ्ख्यात्वेनास्याः स्थूलतयैव भासमानत्वात् ॥५३॥ १४२६ ॥ चत्वार ऊर्ध्वलोके च द्वौ समुद्रे त्रयो जले विंशतिरध इति-अधोलोके, तथैव-तेनैव प्रकारेण शतं चाष्टोत्तरं अष्टाधिकं तिर्यग् लोके, इह तुशब्दश्चशब्दश्च क्वचित् पूरणे क्वचिच्च पुनरर्थे व्याख्येयः ॥ ५४॥ १४२७ ॥
Jain Educat
orational
For Privale & Personal use only
O
w
.jainelibrary.org