________________
उत्तरा० अवचूर्णिः
जीवाजीवविभक्तिरितिनाम पाशत्तममध्ययनम्
॥३०७॥
सिद्धानां
| अनेकविधत्वमेषामुपाधिभेदात्, तानाह
इत्थीपुरिससिद्धा य, तहेव य नपुंसगा। सलिंगे अन्नलिंगे य, गिहिलिंगे तहेव य ॥१४२२॥ सिद्धः शब्दप्रत्येकमभिसम्बध्यते, ततः स्त्रियश्च ते पूर्वपर्यायापेक्षया सिद्धाश्च स्त्रीसिद्धाः, एवं पुरुषसिद्धाः तथैव च, इहोत्तरत्र च प्रक्रमेण सिद्धशब्दयोगात् नपुंसकसिद्धाः, स्वलिङ्गसिद्धाः, स्वलिङ्गञ्च रजोहरणमुखवस्त्रिकादिरूपं, अन्यलिङ्गे-एतदपेक्षया भिन्नलिङ्गे शाक्यादिसम्बन्धिनि सिद्धाः, गृहिलिङ्गे-गृहस्थवेषे सिद्धा मरुदेवीवत्, तथैवेत्युक्तसमुच्चये, चकारस्तु तीर्थसिद्धाद्यनुक्तभेदसंसूचकः॥४९॥१४२२॥
सम्प्रति सिद्धानेवावगाहनातः क्षेत्रतश्चाह
उकोसोगाहणाए य, जहन्नमज्झिमाइ य । उ8 अहे य तिरियं च, समुप॑मि जलंमि य ॥१४२३ ॥ उत्कृष्टा-महती सा चासाववगाहना च-शरीरं सा तथा तस्यामुत्कृष्टावगाहनायां-पञ्चधनुःशतमानायां सिद्धाः, चः समुच्चये, अवगाहनायामिति प्रक्रमात् प्रत्येकं योगात् जघन्यावगाहनायां-द्विहस्तमानशरीररूपायां सिद्धाः, मध्यमावगाहनायां चोक्तरूपोत्कृष्टजघन्यावगाहनान्तरालवर्त्तिन्यां सिद्धाः, ऊर्ध्व-ऊर्ध्वलोके मेरुचूलिकादौ सिद्धाः, तत्रापि केषाञ्चित् सिद्धप्रतिमावन्दनाद्यर्थ गतानां चारणश्रमणादीनां मुक्त्यवाप्तेः सम्भवात् , अधश्च-अधोलौकिकग्रामरूपे सिद्धाः, तिर्यग् लोके च-अर्द्धतृतीयद्वीपसमुद्ररूपे, तत्रापि केचित्समुद्रे सिद्धाः, जले च-नद्यादिसम्बन्धिनि सिद्धाः, भूभूधराद्यशेषास्पदोपलक्षणमेतत् , अर्द्धतृतीयद्वीपसमुद्रेषु | हि न क्वचित् मुक्त्यवाप्तिनिषेध इति ॥ ५० ॥ १४२३ ॥
भेदा अब
गाहना क्षेत्रञ्च
॥३०७॥
Jain Education Interational
For Privale & Personal use only
www.jainelibrary.org