________________
जीवविभक्तिप्ररूपण प्रतिज्ञा द्विविधा जीवाश्च
| गन्धतो रसतश्चैव भाज्यः, स्पर्शतोऽपि च, अत्र चोक्तनीत्या वर्णादयो विंशतिस्तद्योगात्परिमण्डलेन विंशतिरेव भङ्गा लभ्यन्ते, एवं वृत्तेन २०, यस्रेण २०, चतुरस्रेण २०, आयतेन २० च, प्रत्येकमेतावन्त एव भङ्गकाः प्राप्यन्ते इति संस्थानपञ्चकभङ्गसंयोगे लब्धं शतं १००, एवं वर्णगन्धरसस्पर्शसंस्थानानां सकलभङ्गसङ्कलनातो जातानि व्यशीत्यधिकानि चत्वारिशतानि ४८२, सर्वत्र जातावेकवचनं, परिस्थूरन्यायतश्चैतदुच्यते, अन्यथा प्रत्येकमप्येषां तारतम्यतो नानात्वादनन्ता एव भङ्गकाः सम्भवन्ति, इत्थं चैतत्परिणामवैचित्र्यं केवलागमप्रमाणावसेयं इति न स्वमतिकल्पितहेतुभिश्चित्तमाकुलीकर्तव्यमिति ॥ ४२-४६॥१४१५-१९॥
सम्प्रत्युपसंहारद्वारेणोत्तरग्रन्थसम्बन्धमाह
एसा अजीवविभत्ती, समासेण वियाहिया। इत्तो जीवविभत्ति, वुच्छामि अणुपुव्वसो॥१४२० ॥ ___ एषा-अनन्तरोक्ता अजीवविभक्तिः समासेन-सङ्केपेण व्याख्याता, इत इति-अजीवविभक्तिव्याख्यानन्तरं जीवविभक्तिं | वक्ष्यामि आनुपूर्व्या ॥ ४७ ॥ १४२० ॥ यथाप्रतिज्ञातमाह
संसारत्या य सिद्धा य, दुविहा जीवा वियाहिया। | सिद्धा णेगविहा वुत्ता, तं (दुविहा जीवा भवन्ति । तत्थाणेगवहा सिद्धा ते पा०) मे कित्तयओ सुण ॥१४२१॥
संसरति उपलक्षणादवतिष्ठन्ते, अस्मिन्निति संसारो गतिचतुष्टयात्मकः, तिष्ठन्ति इति संसारस्थाः-नरकादिगतिवर्तिनः, चः पुनः, सिद्धाश्च सकलकर्मक्षयात् मुक्तिपदप्राप्ताः, द्विविधा उपदर्शितभेदात् द्विभेदा जीवा व्याख्याताः, तत्र सिद्धाः-अनेकप्रकारा उक्ताः, तमिति सूत्रत्वात्तान मे-मम कथयत शृणुत अल्पवक्तव्यत्वाच्च पश्चान्निर्देशेऽपि पूर्व सिद्धभेदाभिधानमदुष्टमिति॥४८॥१४२१
उत्तरा०५२
Jain Educatil
lational
For Privale & Personal use only
T
K.Mr.jainelibrary.org