________________
रूपिपर्याया इव वर्णादयः प्ररूप्यमाणा अपि संवित्तिमानेतुं शक्याः, अनुमानतस्तु इतरथापि द्रव्यस्य पर्याय विकलस्यासम्भवात् गम्यन्त एवेति तत्प्ररूपणामनादृत्य द्रव्यतो रूपिणः प्ररूपयितुमाह
खंधा य खंधदेसा य, तप्पएसा तहेव य । परमाणुणो अ बोद्धव्वा, रूविणो अ चउव्विहा ।। १३८३ ॥ स्कन्दन्ति-शुष्यन्ति धीयन्ते च - पोष्यन्ते च पुद्गलानां विचटनेन चटनेन चेति स्कन्धाः, चः समुञ्चये, स्कन्धानां देशाःभागाः स्कन्धदेशाश्च तेषां स्कन्धानां प्रदेशा- निरंशा भागास्तत्प्रदेशाः, तथैव चेति समुच्चये, बोद्धव्याः - ज्ञातव्याः, रूपिणः, चः पुनश्चतुष्प्रकारा, इह च देशप्रदेशानां स्कन्धेषु एवान्तर्भावात् स्कन्धाः परमाणवश्चेति समासतो द्वावेव रूपद्रव्यभेदौ ॥ १० ॥ १३८३ ॥
तयोश्च किं लक्षणमाह
एगत्तेण पुहुत्तेणं, खंधा य परमाणु य ।
लोएगदेसे लोए अ, भइअव्वा ते उ खित्तओ । एत्तो कालविभागं तु, तेसिं वुच्छं चउन्विहं ॥ १३८४ ॥ गाथार्द्ध, एकत्वेन - समान परिणतिरूपेण पृथक्त्वेन परमाण्वन्तरैरसङ्घातरूपेण लक्ष्यन्ते इति शेषः, के एवमित्याह - स्कन्धाः, | चस्य भिन्नक्रमत्वात् परमाणवश्च, स्कन्धा हि संहतानेकपरमाणुरूपाः, परमाणवश्च परमाण्वन्तरैरसंहतिभाजः, सम्प्रति एतानेव क्षेत्रत आह- लोए सूत्रार्द्ध, लोकस्य - चतुर्दशरज्वात्मकस्य एकदेश- एकद्व्यादिसङ्ख्यातासङ्ख्यातप्रदेशात्मकः प्रतिनियतो भागो लोकैकदेशस्तस्मिन्, लोके वा भक्तव्या -भजनीया दर्शनीयाः ते इति स्कन्धा परमाणवश्च तुः पूरणे, क्षेत्रतः - क्षेत्रमाश्रित्य, अत्र
Jain Education National
For Private & Personal Use Only
xoxoxoxoxoxoXXXXXXX
रूपिद्रव्य
भेदाः तेषां
लक्षणं च
ww.jainelibrary.org