________________
किं पुनः कुर्यादित्याह
सुक्कं झाणं झियाइजा, अणियाणे अकिंचणे । वोसट्टकाए विहरिजा, जाव कालस्स पजओ॥ १३७१ ॥ ___ शुक्लध्यानं यथा स्यादेवं ध्यायेत्-चिन्तयेत् अनिदानः-अविद्यमाननिदानः अकिंचनः, व्युत्सृष्टः कायः-शरीरं येन स तथा, विहरेत्-अप्रतिबद्धविहारितयेति गम्यं, यावदिति मर्यादायां कालस्य-मृत्योः पर्यायः-परिपाटी प्रस्ताव इत्यर्थो यावन्मरणसमयः, प्रक्रमप्राप्तो भवतीति भावः॥१९॥ १३७१॥
एवंविधो यावदायुर्विहृत्य मरणसमये यत्कृत्वा यत्फलमवामोति तदाह
निजूहिऊण आहारं, कालधम्मे उवढिए । चइऊण माणुसं बुंदि, पह दुक्खा विमुच्चई ॥ १३७२॥ परित्यज्य आहारं-अशनादिसंलेखनाक्रमेणैव न झगिति, झगिति तत्करणे बहुतरदोषसम्भवात् , तथा चागम:-"देहमि असंलिहिए सहसा धाऊहिं खिजमाणेहिं" इत्यादि, कदा, कालधर्म-आयुःक्षयरूपे मृत्युस्वभावे उपस्थिते-प्रत्यासन्नीभूते, त्यक्त्वा-अपहाय मानुषीं-मनुष्यसम्बन्धिनी बोन्दि-शरीरं, प्रभुवीर्यान्तरायक्षयतो विशिष्टसामर्थ्यवान् दुःखैः शारीरमानसैविमुच्यते-विशेषेण त्यज्यते, तद्धेतुकर्माभावादिति भावः॥ २०॥ १३७२ ॥
कीदृशः सन्नित्याहनिम्ममो निरहंकारो, वीयराओ अणासवो। संपत्तो केवलं नाणं, सासयं परिनिव्वुडे ॥१३७३॥त्तिबेमि।
॥ अणगारमग्गं ॥ ३५॥
काभावाद् दुःखाभावः
KRXXX
उत्तरा०५१
Jain Education S
tional
For Privale & Personal use only
jainelibrary.org