________________
उत्तरा० अवचूर्णिः
A अनगारमागंगतिनामपञ्चत्रिंशतममध्य
॥३०॥
यन
३५
इत्थं च पिण्डमवाप्य यथा भुञ्जीत तथाहअलोलो न रसे गिद्धो, जिन्भादतो अमुच्छिओ।न रसट्ठाए मुंजिजा, जवणट्ठाए महामुणी ॥ १३६९॥ अलोल:-सरसान्ने प्राप्ते न लाम्पथ्यवान् , न रसे-स्निग्धादौ गृद्धः-प्राप्ते अभिकाढावान् , कथं चैवंविधो?, यतः प्राकृतत्वात् दान्ता-वशीकृता जिह्वा-रसना येनासौ दान्तजिह्वः, अत एव अमूञ्छितः सन्निधेरकरणेन तत्काले वा अभिष्वङ्गाभावेन, एवंविधश्च सन् न-नैव रसार्थ-सरसमिदमहमास्वादयामीति, यद्वा रसो-धातुविशेषः स चाशेषधातूपलक्षणं ततस्तदुपचयः स्यादित्येवमर्थ न भुञ्जीत, किमर्थ तीत्याह-यापना-निर्वाहः, स चार्थात् संयमस्य, तदर्थ, महामुनिः तपस्वी, अनेन पिण्डविशुद्धिरुक्ता ॥ १७॥१३६९ ॥
तदेवमादौ मूलगुणान् विधेयतया अभिधाय, तत्प्रतिपालनार्थमाश्रयाहारचिन्ताद्वारेणोत्तरगुणांश्च सम्प्रति मूलोत्तरगुणXI स्थितः, तत एवात्मनि उत्पन्नबहुमानः कश्चिदर्चनाद्यपि प्रार्थयेदिति तनिषेधार्थमाह
अञ्चणं रयणं चेव, वंदणं पूअणं तहा । इड्डीसक्कारसम्माणं, मणसावि न पत्थए ॥ १३७० ॥ अर्चनां-पुष्पादिभिः पूजा, रचनां-निषद्यादिविषयां स्वस्तिकादिन्यासात्मिकां वा, चः समुच्चये, एवः अवधारणे नेत्यनेन सम्भन्त्स्यते, वन्दनं-नमस्तुभ्यमिति वाचा स्तवनं, पूजनं-विशिष्टवस्त्रादिभिः प्रतिलाभनं, तथेति समुच्चये, ऋद्धिश्च-श्रावकोपकरणादिसम्पद् आमोषध्यादिरूपा वा सत्कारश्चार्घप्रदानादिः सन्मानश्चाभ्युत्थानादि, ऋद्धिसत्कारसन्मानं तत् मनसापि, आस्तां वचसा, नैव प्रार्थयेत् , ममैवं स्यादिति अभिलषेत् ॥ १८॥१३७०॥
अनगारमार्गगतिः
॥३०
॥
SainEducan-TANT
For Private & Personal use only
Eom
ainelibrary.org