________________
अनगार मार्गगतिः
FOXXXXXXXXXXXX
वस्तु तथैव परस्य ददानो वणिग् भवतीति योगो, वाणिज्यप्रवृत्तत्वादिति भावः, अत एव क्रयविक्रये वर्तमानः-प्रवर्त्तमानो भिक्षुन भवति तादृशो, गम्यत्वाद्यादृशः सूत्रे अभिहितो भावभिक्षुरिति भावः ॥१४ ॥ १३६६॥ । ततः किमित्याहभिक्खियव्वं न केयव्वं, भिक्खूणा भिक्खवित्तिणा। कयविकओ महादोसो, भिक्खावित्ती मुहावहा ॥१३६७॥
भिक्षितव्यं-याचितव्यं, तथाविधं वस्तु इति गम्यं, न-जैव केतव्यं-मूल्येन ग्रहीतव्यं, केन ?, भिक्षुणा, कीदृशा?, भिक्षया वृत्तिः-निर्वहणं यस्यासौ भिक्षावृत्तिः तेन, क्रयविक्रयमेव महादोषं उक्तरीत्या लिङ्गव्यत्ययः प्राग्वत् , भिक्षावृत्तिः शुभं इह| परलोकयोः कल्याणं-सुखं च आह्वयति-प्रापयतीति शुभावहां सुखावहा वा, अनेन क्रीतपरिहार उक्तः, स चाशेषविशुद्धिकोटीगतदोषोपलक्षणम् ॥१५॥१३६७॥
भिक्षितव्यमुक्तं, तच्च दानश्रद्धादिमति वेश्मनि क्वचिदेकत्रैव स्यादत आहसमुयाणं उंछमेसिजा, जहासुत्तमणिदियं । लामालाभंमि संतुट्टे, पिंडवायं चरे मुणी (गवेसए पा०)॥१३६८॥ __समुदानं भैश्यं नत्वेकभिक्षां, तच्च उञ्छं-अन्यान्यग्रहात्स्वल्पमात्रामीलनात् एषयेत्-गवेषयेत् , तच्चोत्सूत्रमपि स्यादत आह| यथासूत्रं-आगमानतिक्रमेण, अत एव अनिन्दितं, तथा लाभालाभे सन्तुष्टः-ओदनादेः प्राप्तावप्राप्तौ च सन्तोषवान्, न तु वाञ्छाविधुरितचित्तः, इह लाभे वाञ्छा उत्तरोत्तरवस्तुविषया, पिण्ड्यत इति पिण्डो-भिक्षा तस्य पातः-पतनं प्रक्रमात्पात्रे अस्मिन्निति पिण्डपातं-भिक्षाऽऽटनं तच्चरेत्-आसेवेत, वाक्यान्तरत्वादपौनरुत्यम् ॥ १६ ॥ १३६८ ॥
आगमानतिक्रमेण, अत
रोत्तरवस्तुविषया, पिण्याम॥ १६ ॥ १३६८ ।
Jain Educa
t
ional
For Private & Personal use only
salwww.jainelibrary.org