SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ अनगारमार्गगतिः SEXOXOXOXOXOXOXakakakakak इत्थमाश्रयचिन्तां विधायाहारचिन्तामाह तहेव भत्तपाणेसु, पयणे पयावणेसु य । पाणभूयदयट्ठाए, न पए ण पयावए ॥ १३६२॥ तथैव-तेनैव प्रकारेण भक्तानि च-शाल्योदनादीनि पानानि च पयःप्रभृतीनि भक्तपानानि तेषु, पचनानि स्वयं विक्लेदापादनक्वथनानि पाचनानि च तान्येवान्यैः पचनपाचनानि तेषु च भूतवधो दृश्यत इति प्रक्रमः, ततः किमित्याह-प्राणाःद्वीन्द्रियादयः भूतानि-पृथिव्यादीनि तेषां रक्षणं प्राणभूतदया तदर्थ-तद्धेतोः, कोऽर्थः? पचनपाचनप्रवृत्तानां यः सम्भवी जीवोपघातः स मा भूदिति न पचेत् स्वयं भक्तादीनि, प्रक्रमात नापि पाचयेत् तदेवान्यैः॥१३६२ ॥ अमुमेवार्थ स्पष्टतरमाहजलधन्ननिस्सिया जीवा, पुढवीकट्ठनिस्सिया । हम्मंति भत्तापाणेसु, तम्हा भिक्खू न पयावए ॥१३६३ ॥ जलं च धान्यं च-शाल्यादि तनिश्रिता जलधान्यनिश्रितास्तत्रान्यत्र चोत्पद्य ये तन्निश्रया स्थिताः पूतरकभुजगेलिकापिपीलिकाद्याः, उपलक्षणत्वात्तद्रूपाश्च जीवाः-प्राणिनः, पृथ्वीकायनिश्रिता एकेन्द्रियाद्याः हन्यन्ते भक्तपानेषु प्रक्रमात् पच्यमानादिषु, यत एवं तस्माद् भिक्षुः अपेर्गम्यत्वात् पाचयेदपि न, किं पुनः स्वयं पचेत् , अनुमतिनिषेधोपलक्षणं चैतत् ॥११॥ १३६३ ॥ विसप्पे सब्बओ धारे, बहुपाणविणासणे । नत्थि जोइसमे सत्थे, तम्हा जोई न दीवए ॥ १३६४ ॥ किंच विसर्पति-स्वल्पमपि बहुभवतीति विसर्प सर्वतः-सर्वासु दिक्षु धारेव धारा जीवविनाशिका शक्तिरस्येति सर्वतो धारं | सर्वदिग्जन्तूपघातकत्वात् , अत एव बहुप्राणविनाशनं अनेकजीवजीवितव्यपरोपकं, नास्ति ज्योतिःसमं-अग्नितुल्यं शस्त्रमन्य Jain Educatio ertional For Privale & Personal use only djainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy