________________
उत्तरा०
अवचूर्णिः
॥ २९७ ॥
अनगारमा
प्रव्रज्यां - सर्वविरतिरूपां आश्रितः प्रतिपन्नो मुनिः इमान् प्रतिप्राणि प्रतीततया प्रत्यक्षान् सङ्गान् पुत्रकलत्रपौत्रादीन् प्रतिबन्धान् विजानीयात् भवहेतवोऽमी इति विशेषेणावबुध्येत ज्ञानस्य च विरतिफलत्वात् प्रत्याचक्षीतेत्युक्तं भवति, सङ्गशब्दव्युत्प- ॐ र्गगतिनामत्तिमाह- सुब्व्यत्ययाद्येषु सज्यन्ते - प्रतिबध्यन्ते कर्मणेति गम्यं, के ते ? मानवा-मानुषा उपलक्षणत्वादन्येऽपि जन्तवः ॥ २ ॥ १३५४॥
पञ्चत्रिंशत्त
ममध्य
तव हिंसं अलियं, चोलं अव्वंभसेवणं । इच्छाकामं च लोभं च, संजओ परिवज्जए ।। १३५५ ।।
यनम्
३५
तथेति समुच्चये एवः पूरणे, हिंसां - प्राणव्यपरोपणं, अलीकं - अनृतभाषणं, चौर्य-अदत्तादानं, अब्रह्मसेवनं मैथुनाचरणं, इच्छारूपः काम इच्छाकामस्तं च- अप्राप्तवस्तुकाङ्क्षारूपं लोभं च लब्धवस्तुविषयगृज्यात्मकं, अनेनोभयेनापि परिग्रह उक्तः, ततः परिग्रहं च, संयतः- यतिः परिवर्जयेत् परिहरेत्, अनेन मूलगुणा उक्ताः ॥ ३ ॥ १३५५ ॥
मूलगुणव्यवस्थितस्यापि चावश्यमाश्रयाहाराभ्यां प्रयोजनं, तयोश्च तदतिचारहेतुत्वमपि कदाचित्स्यादिति मन्वानस्तत्परिहाराय सूत्रषङ्केन तावदाश्रयचिन्तां प्रति यतते
X-6-6X6X-6
Jain Education tional
मणोहरं चित्तघरं, मल्लधूवणवासियं । सकवाडं पंडरुल्लोयं, मणसावि न पत्थए ।। १३५६ ।।
मनोहरं - चित्ताक्षेपकं, किं तत् ? प्रधानं गृहं चित्रगृहं, तदपि कीदृशं ? माल्यैः प्रथितपुष्पैः धूपनैश्च - कालागुरुतुरुष्कादि- * ॥ २९७॥ सम्बन्धिभिर्वासितं - सुरभी कृतं माल्यधूपेन वासितं सकपाटं - कपाटसहितं तदपि पाण्डुरोलोचं - श्वेतवस्त्रभूषितं मनसापि, आस्तां वचसा न प्रार्थयेत् न अभिलषेत्, किं पुनस्तत्र तिष्ठेदिति भावः ॥ ४ ॥ १३५६ ॥
For Private & Personal Use Only
अनगार
मार्गगतिः
jainelibrary.org