________________
अथ अनगारमार्गगतिरितिनाम पञ्चत्रिंशत्तममध्ययनम् ।
अनगारमार्गगतिकथनप्रतिज्ञा
अनन्तराध्ययने अशुभानुभावलेश्यात्यागतः शुभानुभावा एव लेश्या अधिष्ठितव्या इत्युक्तं, एतच्च भिक्षुगुणव्यवस्थितेन कर्तुं शक्यं, तद्व्यवस्थानं च तत्परिज्ञानत इति तदर्थमिदमारभ्यते, अनगारमार्गगतिरितिनाम
सुणेह मे एगमणा, मग्गं सवन्नु (बुद्धेहिं ) देसियं । जमायरंतो भिक्खू, दुक्खाणंतकरो भवे ॥ १३५३ ॥
श्रुणुत-आकर्णयत मे-मम कथयत इति शेषः, एकाग्रमनसः-अनन्यगतचित्ताः सन्तः, शिष्या इति शेषः, किं तदित्याहमार्ग प्रक्रमात् मुक्तेः बुद्धैः-अवगतयथावद्वस्तुतत्त्वैरर्हद्भिः देशित-प्रतिपादितं अर्थतः सूत्रतश्च, तमेव विशेषयति-यं मार्ग आचरन्-आसेवमानो भिक्षुः-मुनिः दुःखानां अन्तः-पर्यन्तस्तत्करणशीलोऽन्तकरो भवेत् , सकलकर्मनिर्मूलनादिति भावः, तदनेनासेव्यासेवकसम्बन्धेनानगारसम्बन्धित्वं मार्गस्य तत्फलं च मुक्तिगतिरिति दर्शितं, ततश्चानगारमार्ग तद्गतिं च श्रुणुत इत्यादुक्तं भवति ॥ १॥१३५३ ॥ __यथा प्रतिज्ञातमाह
गिहवासं परिच्चजा, पव्वजामस्सिए मुणी । इमे संगे वियाणिजा, जेहि सज्जंति माणवा ॥ १३५४॥ गिहवासमित्यादि २० सूत्राणि, गृहवासं-गृहावस्थानं यद्वा गृहमेव पारवश्यहेतुतया पाशो गृहपाशस्तं परित्यज-परिहृत्य
Jain Educat
i onal
For Privale & Personal use only
Flaur.jainelibrary.org