________________
देवानां लेण्यास्थितिः
सनत्कुमारे उत्कृष्टा
ततः पूर्वत्रापि
ण पर वुच्छामि, म
पद्मायाः स्थितिमाहजा तेऊइ ठिई खलु उक्कोसा सा उ समयमभहिया। जहन्नेण पम्हाए दस मुहुत्तहियाई उक्कोसा ।।१३४५॥
या तैजस्याः स्थितिः खलु उत्कृष्टा सा उत्ति-सैव समयाभ्यधिका जघन्येन पद्मायाः स्थितिरिति प्रक्रमः, दश तु-दशव प्रस्ता- वात् सागराणि मुहाधिकानि उत्कृष्टा, इयं च जघन्या सनत्कुमारे उत्कृष्टा च ब्रह्मलोके, अनयोरेतावदायुःसम्भवात् , आह-यदीहान्तर्मुहूर्तमधिकमुच्यते, ततः पूर्वत्रापि किं न तदधिकमुक्तं , देवभवलेश्याया एव तत्र विविक्षतत्वात् , प्रतिज्ञानं हि "तेण परं वुच्छामि, लेसाण ठिई उ देवाणं"ति, ननु एवं हीहान्तर्मुहाधिकत्वं विरुध्यते?, न, अभिप्रायापरिज्ञानात् , अत्र हि प्रागुत्तरभवलेश्यापि “अंतोमुहुर्तमि गए” इति वचनात् , देवसम्बन्धिन्येवेति प्रदर्शनार्थमित्थमुक्तमिति न विरोधः॥५४॥१३४५॥
शुक्लायाः स्थितिमाहजा पम्हाइ ठिई खलु उक्कोसा सा उ समयमब्भहिया। जहन्नेणं सुक्काए तित्तीसमुहुत्तमन्भहिया ॥१३४६॥
त्रयस्त्रिंशन्मुहूर्ताभ्यधिकानि सागराण्युत्कृष्टेति च गम्यं, अत्र जघन्या लान्तके, उत्कृष्टा तु लान्तकादारभ्य यावत्सर्वार्थसिद्धेषु, अत्रैवैतावदायुषः सम्भवात् ॥ ५५ ॥ १३४६ ॥
सम्प्रति गतिद्वारमाहकिण्हा नीला काऊ तिन्निवि लेसाउ अहम्मलेसाउ। एयाहि तिहिवि जीवो दुग्गई उववज्बई ॥१३४७॥
उत्तरा०५०
Jain Education Interational
For Private & Personal use only
wronwr.jainelibrary.org