________________
उत्तरा० अवचूर्णिः
लेशाख्यं चतुस्त्रिंशमध्ययनम्
३४
॥२९५॥
गाथा २, तिस्रोऽप्येता अधर्मलेश्याः, पापोपादानहेतुत्वात् , यद्येवं ततः किमित्याह-एताभिः पूर्वोक्ताभिः तिसृभिरपि कृष्णादिलेश्याभिर्जीवो दुर्गतिं उपपद्यते-प्राप्नोति, यद्वा सुब्व्यत्ययात् दुर्गतावुत्पद्यते-जायते, सक्तिप्टेन तत्प्रायोग्यायुष एव तद्वतां बन्धसम्भवादिति ॥५६॥ १३४७॥
तेउ पम्हा सुक्का तिन्निवि एयाउ (या अधम्मलेसाउ पा०) धम्मलेसाउ।
एयाहि तिहिवि जीवो सुग्गई उववजई ॥१३४८॥ तथा तैजसी पद्मा शुक्ला तिस्रोऽप्येता धर्मप्रधाना लेश्या धर्मलेश्याः, विशुद्धत्वेनासां धर्महेतुत्वात् , अत एव एताभिस्तिसभिरपि तैजस्यादिलेश्याभिर्जीवः सुगतिं मुक्तिं चोपपद्यते, यद्वा प्राग्वत् सुगतावुत्पद्यते-जायते, तागायुर्वन्धतः सकलकर्मा- पगमाच्च ॥ ५७॥ १३४८॥
साम्प्रतमायुरावसरः, तत्र च यस्यां लेश्यायां यदायुषो मानं तत् स्थितिद्वारे एवार्थादुक्तं, इह तु इदमुच्यते-अवश्यं हि जन्तुयल्लेश्येषूत्पत्स्यते तल्लेश्य एव म्रियते, तथा चागमः-"जलेसाई दवाई परिआइत्ता कलं करेइ तल्लेसो उववजई"त्ति । तत्र जन्मान्तरभाविलेश्यायाः किं प्रथमसमये परभवायुष उदयः आहोस्विच्चरमसमये अन्यथा वा ?, इति संशयापनोदायाह
लेसाहिं सव्वाहिं पढमे समयंमि परिणयाहिं तु । न हु कस्सइ उववत्ति(नवि करसवि उववाओ पा०) परे भवे अस्थि जीवस्स ॥ १३४९ ॥
जन्मान्तरोपपत्तौ लेश्याया अधिकारः
KOKA-KOKKAKEKOKA-KOKO-KI-KO-X
॥२९५ ॥
Jain Educati
o nal
For Privale & Personal use only
ainelibrary.org