________________
उत्तरा० अवचूर्णिः ॥२९४॥
लेश्याख्यं चतुर्विंशमध्ययनम् ३४
देवानां लेश्यास्थितिः
ततः परं वक्ष्यामि, तेजोलेश्यां यथेति यथा येनावस्थाप्रकारेण सुरगणानां भवति तथेति शेषः, सुरगणानां-चतुर्निकायानामित्यर्थः, चः पूरणे ॥५१॥१३४२॥
प्रतिज्ञातमेवाह
पलिओवमं जहन्ना उकोसा सागरा उ दुण्हहिया । पलियमसंखिजेणं होइ भागेण तेऊए ॥१३४३॥ पल्योपमं जघन्या, उत्कृष्टा सागरत्ति-सागरोपमे, तुरेवार्थः, द्वे-द्विसद्ध्ये अधिक-अर्गले, कियतेत्याह-पल्योपमासमयेयेन भागेनेति योगः, भवति तैजस्याः स्थितिरिति प्रक्रमः, इयं च सामान्योपक्रमेऽपि वैमानिकनिकायविषयतयैव ज्ञेया, तत्र सौधर्मशानदेवानां जघन्यत उत्कृष्टतश्चैतावदायुषः सम्भवात् , उपलक्षणं चैतत् शेषनिकायतेजोलेश्यास्थितेः, ततश्च भवनपतिव्यन्तराणां जघन्यतो दशवर्षसहस्राणि, उत्कृष्टतस्तु भवनपतीनां सागरोपममधिकं, व्यन्तराणां च पल्योपम, ज्योतिषां तु जघन्यत पल्योपमाष्टभागः, उत्कृष्टतस्तु वर्षलक्षाधिकं पल्योपमं, एतावन्मात्राया एवैषां जघन्यत उत्कृष्टतश्चायुःस्थिते. सम्भवात् ॥ ५२ ॥ १३४३ ॥
दसवाससहस्साई तेऊइ ठिई जहन्निया होइ (जा काऊ ठिई खलु उक्कोसा
सा उ समयमभहिया पा०)। दुन्नुदही पलिओवमअसंखभागं च उक्कोसा ॥१३४४॥ दसवासेत्यादि स्पष्टमेव, नवरं, अनेन निकायभेदमङ्गीकृत्यैव लेश्यास्थितिरुक्ता ॥५३ ॥ १३४४ ॥
॥२९४॥
Jain Educati
o nal
For Private & Personal use only
m.jainelibrary.org