________________
उत्तरा०
अवचूर्णिः
॥ २९३ ॥
एषा पूर्वोक्ता निरये भवा नैरयिकास्तत्सम्बन्धिनीनां लेश्यानां स्थितिः, तुः पूरणे वर्णिता - ख्याता भवति, तेणेति सूत्रत्वात्ततः परमित्यग्रतोऽपि वक्ष्यामि प्रक्रमात् लेश्यानां स्थितिं तिर्यङमनुष्याणां तथा देवानाम् ॥ ४४ ॥ १३३५ ॥
यथा प्रतिज्ञातमाह
अंतमुत्तम लेसाण ठिई जहिं जहिं जा उ । तिरियाण नराणं वा वजित्ता केवलं लेसं ॥ १३३६ ॥ अन्तर्मुहूर्त्ता - अन्तर्मुहूर्त्तकालं स्थितिर्जघन्योत्कृष्टा वेति शेषः, कतरासामित्याह - यस्मिन् २ इति पृथ्वीकायादौ सम्मूच्छिममनुष्यादौ च याः कृष्णाद्याः, तुः पूरणे, तिरश्चां मनुष्याणां च मध्ये सम्भवति तासां, एता हि क्वचित् काश्चित्सम्भवन्ति, यथा पृथ्वी जलवनस्पतिकायिकानां कृष्णाद्यास्तेजोलेश्यान्ताश्चतस्रो लेश्याः, तेजोवाय्त्रोः, द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाणां च तिस्रः, पञ्चेन्द्रियतिरश्चां मनुष्याणां च षट् सम्मूच्छिममनुष्याणां तिस्रः, ननु एवं शुक्कलेश्याया अप्यन्तर्मुहूर्त्तमेव स्थितिः प्राप्तेत्याशङ्कयाह-वर्जयित्वा केवलां शुद्धां शुक्ललेश्याम् ॥ ४५ ॥ १३३६ ॥
अस्याः स्थितिमाह
मुहुत्त तु जहन्ना उक्कोसा होइ पुत्र्वकोडी उ । नवहिं वरिसेहिं ऊणा नायव्वा सुक्कलेसाए ।। १३३७ ॥ प्राग्वत्, अन्तर्मुहूर्तमेव, उत्कृष्टा भवति पूर्वकोटी नवभिर्वर्षैन्यूना ज्ञातव्या शुक्लायाः स्थितिरिति प्रक्रमः, इह यद्यपि कश्चित् पूर्व कोट्यायुरष्टवार्षिक एव व्रतपरिणाममाप्नोति, तथापि नैतावद्वयःस्थस्य वर्षपर्यायादर्वाक् शुक्ललेश्यायाः सम्भव इति नवभिर्वरूना पूर्वकोटिरुच्यते ॥ ४६ ॥ १३३७ ॥
Jain Educationonal
XOXOXOXoXoXoXXXXXXX
For Private & Personal Use Only
201
लेश्याख्यं
चतुस्त्रिंश
मध्ययनम्
३४
तिर्यय
नुष्याणां लेश्यास्थितिः
॥ २९३ ॥
ainelibrary.org