SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ ROXOXOXOXOXOXOXOXOXOXOXOX चोत्कृष्टा, इयं च जघन्या रत्नप्रभायां, तस्यां हि जघन्यतोऽपि दशवर्षसहस्राण्यायुरिति, उत्कृष्टा च वालुकाप्रभायां, तत्राप्युपरितनप्रस्तटनारकाणामेतावत्स्थितिकानामसाविति भावनीयम् ॥४१॥ १३३२॥ तिण्णुदहीपलिओवममसंखभागो जहन्ननीलठिई । दसउदहीपलिओवममसंखभागं च उक्कोसा ॥१३३३ ॥ AI वय उदधयः मस्यालाक्षणिकत्वात् चस्य गम्यत्वाच्च पल्योपमासङ्ख्येयभागश्च जघन्या नीलायाः स्थितिः, दशोदधयः पल्योपमा | सङ्ख्येयभागश्चोत्कृष्टा, इहापि जघन्या वालुकाप्रभायामेतावस्थितिकानामेव, उत्कृष्टा च धूमप्रभायामुपरितनप्रस्तटनारकाणां, तत्रापि येषामेतावती स्थितिरिति मन्तव्यम् ॥ ४२॥१३३३॥ दसउदहीपलिओवममसंखभागं जहन्निया होइ । तित्तीससागराइं उक्कोसा होइ किण्हाए ॥१३३४॥ दशोदधयस्तथा पल्योपमासङ्ख्येयभागो जघन्यिका भवति प्रक्रमात् स्थितिः, कृष्णाया इति सम्बन्ध अस्याश्च, धूमप्रभायामेता- वत्स्थितिकानामेव त्रयस्त्रिंशत्सागरोपमाणि उत्कृष्टा भवति, कृष्णायाः स्थितिरिति प्रक्रमः, इयं च महातमःप्रभायां तत्रैवैतावप्रमाणस्यायुषः सम्भवात् , इह च नारकाणामुत्तरत्र च देवानां द्रव्यलेश्यास्थितिरित्येव चिन्त्यते तद्भावलेश्यानां परिवर्त्तमानतया अन्यथापि स्थितेः सम्भवात् , उक्त हि-"देवाण नारयाण य दव्वलेसा हवंति एयाओ। भावपरावत्तीए सुरनेरइआण छल्लेसा ॥१॥" ४३ ॥ १३३४ ॥ पूर्वोक्तं हि निगमयन्नुत्तरग्रन्थं प्रस्तावयन्नाहएसा नेरईयाणं लेसाण ठिई उ वणिया होइ । तेण परं वुच्छामि तिरियमणुस्साण देवाणं ॥ १३३५ ॥ नैरयिकाणां लेश्यास्थितिः Jain Educationkaniliational For Private & Personal Use Only
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy