________________
मिथ्यादृष्टिरनार्यः उत्प्रासकं च-यथा पर उत्प्रास्यते दुष्टं च-रागादिदोषवत् यथा स्यादेवं वदनशीलः उत्प्रासकदुष्टवादी, चः समुच्चये, स्तेनः-चौरः चः-प्राग्वत् अपि चेति पूरणे, मत्सरः-परसम्पदसहनं सति वा वित्ते त्यागाभावस्तद्वान् मत्सरी, एतद्योगसमायुत्कः कापोतलेश्यां तुरिति पुनः परिणमेत् ॥ २५, २६ ॥ १३१६-१७॥
नीआवित्ती अचवले, अमाई अकुऊहले । विणीयविणए दंते, जोगवं उवहाणवं ॥ १३१८॥ नीचैर्वृत्तिः कायवाग्मनोभिरनुत्सितः अचपलः चापलानुपेतः-अमायी मायानन्वितः, अकुतूहल:-कुहुकादिष्वकौतुकवान्, अत एव विनीतविनयः-स्वभ्यस्तगुर्वाधुचितप्रतिपत्तिः, दान्तः-इन्द्रियनोइन्द्रियदमेन, योगः-स्वाध्यायादिव्यापारस्तद्वान् , उपधानवान-विहितशास्त्रोपचारः॥२७॥१३१८ ॥
पियधम्मे दढधम्मे, वजभीरू हिए(या पा०)सए (अणासवे पा०)।
एयजोगसमाउत्तो, तेउलेसं तु परिणमे ॥ १३१९ ॥ प्रियधर्मा-अभिरुचितधर्मानुष्ठानः, दृढधर्मा अङ्गीकृतव्रतादिनिर्वाहकः, किमित्येवं ?, यतो वयं-प्राकृतत्वात् अलोपे अवयं वा उभयत्र पापं तद्भीरुः, हितैषको-मुक्तिगवेषकः, शेषं प्राग्वत् ॥ २८ ॥ १३१९ ॥
पयणुकोहमाणो य, मायालोभे य पयणुए। पसंतचित्ते दंतप्पा, जोगवं उवहाणवं ॥१३२०॥ प्रतनू-अतीवाल्पो क्रोधमानौ यस्य स तथा, चः पूरणे, माया लोभश्च प्रतनुको यस्येति शेषः, अत एव प्रशान्तं-प्रकर्षणोपशमवत् चित्तमस्येति प्रशान्तचित्तः, दान्तः अहितप्रवृत्तिनिषेधाद् वशीकृत आत्मा येन स दान्तात्मा ॥ २९ ॥ १३२० ॥
तेजोपद्मलेश्ययोलक्षणम्
Jain Education Baltional
For Private & Personal use only
Diwalejainelibrary.org