________________
उत्तरा० अवचूर्णिः ॥२९ ॥
लेशाख्य चतुस्त्रिंशमध्ययनम्
कृष्णलेश्यायाः सद्भावोपदर्शनादासां लक्षणत्वमुक्तं, यो हि यत्स्वभाव एव स्यात् स तस्य लक्षणं, यथौष्ण्यमग्नेरेवमग्रेऽपि लक्षणत्वं भावनीयम् ॥ २२॥ १३१३ ॥
इस्साअमरिसअतवो, अविज माया अहीरिया।
गेही पओसे य सढे (सढे मत्तो पा०), रसलोलुए सायगवेसए य ॥१३१४ ॥ आरंभा अविरओ, खुद्दो साहस्सिओ नरो। एयजोगसमाउत्तो, नीललेसं तु परिणमे ॥ १३१५ ॥ ईर्ष्या-अपरगुणासहनं अमर्षः-अत्यन्ताभिनिवेशः, अतपः-तपोविपर्ययः, अविद्याः-कुशास्त्ररूपाः माया-वञ्चनात्मिका | अहीकता-असमाचारविषया निर्लज्जता, गृद्धिः-लाम्पव्यं, विषयेष्विति गम्यं, प्रदोषश्च-प्रद्वेषः, मतुब्लोपादभेदोपचाराय वा, इह सर्वत्र तद्वान् जन्तुरेवोच्यते, अत एव शठः अलीकभाषणात् प्रमत्तः प्रकर्षण जात्यादिमदासेवनात् रसेषु लोलुपो-लम्पटो रसलोलुपः सात-सुखं तद्गवेषकश्च-कथं मम सुखं स्यादिति बुद्धिमान् आरम्भात्-प्राण्युपमर्दादविरत:-अनिवृत्तः, क्षुद्रः साहसिको नरः, नीललेश्यां, तुरिति प्राग्वत् , पुनरों वा, परिणमेत् ॥ २३, २४ ॥ १३१४-१५॥
वंके वंकसमायारे, नियडिल्ले अणुजए। पलिउंचग ओवहिए, मिच्छदिट्ठी अणारिए ॥१३१६॥
उप्फालगदुट्टवाई य, तेणे अवि य मच्छरी । एयजोगसमाउत्तो, काउलेसं तु परिणमे ॥ १३१७॥ वको वचसा वक्रसमाचारः क्रियया, निकृतिमान्-मनसाऽनृजुकः कथञ्चिद् ऋजूकर्तुमशक्यतया, प्रतिकुञ्चकः-स्वदोषप्रच्छादकतया, उपधिः-छद्म तेन चरत्यौपधिकः, सर्वत्र व्याजतः प्रवृत्तेः, एकार्थिकानि वैतानि नानादेशजशिष्यानुग्रहायोपात्तानि,
नीलकापोतलेश्ययोलक्षणम्
॥२९
॥
Jain Education
For Private & Personal use only
Pinjainelibrary.org